SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ६६ करुणरसकदम्बकम् अरण्यानी समुत्पन्नैभूरुहामिव दोहदः ॥ १९६ ॥ उदयाय च पूर्णेन्दुर्दैवाद् ग्रस्तश्च राहुणा । फैलेग्रहिश्च सञ्जज्ञे, तरुर्भग्नश्च कुम्भिना ॥ १९७ ॥ आगता च तैरी तीरं, भग्ना च तटभूभृता । उन्नतश्च नैवाम्भोदो, विकीर्णश्च नभस्वता ॥ १९८ ॥ निष्पन्नं च त्रीहिवणं, दग्धं च नववह्निना । धर्मार्थकामयोग्याश्च, जाता यूयं हताश्च हा ॥ १९९ ॥ ॥ त्रिभिर्विशेषकम् ॥ प्राप्यापि मद्गृहं वत्सा !, अकृतार्था गता ह हा । आढ्यस्य कृपणस्येव, बेश्मोपेत्य वैनीपकाः ॥ २०० ॥ तदद्य किमु चक्राद्यै, रत्नैर्निधिभिरप्यलम् ? । युष्मान् विना विरहिणो, ज्योत्स्नौद्यानादिकैरिव ॥ २०१ ॥ पट्खंडभरत क्षेत्रराज्येन यदि वाऽसुभिः । असुभ्योऽपि प्रियैः पुत्रैर्विना भूतस्य किं मम ॥ २०२॥ एवं विलापिनमथो, भूनाथं श्रावकद्विजः । स बोधयितुमित्यूचे, सुधामधुरया गिरा ॥ २०३ ॥ - त्रिषष्टि० प० २, स० ६, पृ० ९१-९३ १ महदरण्यम् । २ वृक्षाणामिव । ३ मनोरथः । ४ फलवान् । ५ हस्तिना । ६ नौका । ७ नूतनमेघः । ८ वायुना । ९ शालिवनम् । १० याचकाः । ११ प्राणैः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy