________________
५४
करुणरसकदम्बकम् उन्निद्रपङ्कजामोदिमृदुप्रत्यूषमारुते । निशाशेषे दवदन्ती स्वप्न मेवमुदैक्षत ॥ ५३७ ।। यदहं फलिते फुल्ले पत्रले चूतपादपे । आरुह्य तत्फलान्यादं झण्जन्ती भृङ्गनिःस्वनान् ॥ ५३८ ।। अकस्माद्वनकरिणोदमूलि च स पादपः । पतिताहं च मेदिन्यां ततोंड इव पक्षिणः ॥ ५३९ ॥ भैनी प्रबुद्धा तत्कालमपश्यंती नलं पुरः । दिशोऽवलोकयामास मृी यूथादिव च्युता ॥ ५४० ॥ अचिंतयच्चापतितमत्याहितमनाहतम् । अशरण्यामरण्ये मां प्रेयानपि मुमोच यत् ॥ ५४१ ॥ यद्वा मुखक्षालनाय प्राणेशो मे निशात्यये । गतो भविष्यति वापि वार्यानतुं जलाशये ? ॥५४२॥ नीतो रमयितुं यद्वोपरुध्य नियतं नलः । कयाचिदपि खेचर्या तद्रूपालोकलुब्धया ॥ ५४३ ॥ कीडन् कलायां कस्यांचिज्जितो मन्ये तया च सः । कृतावस्थानपणतस्तस्थौ चाद्यापि नैति यत् ।। ५४४ ॥ ते दुमा पर्वतास्तेऽपि तदरण्यं च सा च भूः । एकमेव न पश्यामि नलं कमललोचनम् ॥ ५४५ ॥ एवं चिंताप्रपन्ना सा दर्श दर्श दिशोऽखिलाः । प्राणनाथमपश्यन्ती निजं स्पप्नं व्यचारयत् ।। ५४६ ॥
१ विकसितम् । २ कष्टम् । ३ विद्याधर्या । ४ नलरूपदर्शनलुब्धा । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com