SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ करुणरसकदम्बकम् यथैषां बन्धनान्मोक्षः कर्मबन्धात्तथात्मनः । कर्तुं दीक्षामुपादास्ये सौख्याद्वैतनिबन्धनाम् ॥ १८४ ॥ तन्नेमिवचनं श्रुत्वा तौ द्वावपि मुमूर्च्छतुः । रुरुदुर्यदवः सर्वेऽप्यनुद्धृतविलोचनाः ॥ १८५ ॥ शिवासमुद्रविजयौ समाश्वास्य जनार्दनः । रुदितं च प्रतिषिध्य बभाषेऽरिष्टनेमिनम् ॥ १८६॥ मम रामस्य तातानां सदा मान्योऽसि मानद ! । रूपं निरुपमं चेदं यौवनं च नवं तव ॥ १८७ ॥ किं च सापि स्नुषा राजीमती राजीवलोचना । तवानुरूपा तद् ब्रूहि किं ते वैराग्यकारणम् ॥ १८८ ॥ ये चैते पशवो दृष्टा स्त्वया तेऽपि हि मोचिताः । पितॄणां बान्धवानां च तत्पूरय मनोरथम् ॥ १८९ ॥ पितरौ शोकनिर्मग्नौ न ह्युपेक्षितुमर्हसि । तत्रापि हि कुरु भ्रातः सर्वसाधारणीं कृपाम् ॥ १९० ॥ प्रीणिताः प्राणिनो दीना यथैते भवता तथा । भातृन् प्रीणय रामादीनपि स्वोद्वाहदर्शनात् ॥ १९९ ॥ ४७ - त्रिषष्टि० प० ८, स० ९, पृ० १३६ । १ मन्दलोचनाः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy