SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ ४४ करुणरसकदम्बकम् [ २८ ] अरण्ये सीतायास्त्यागे सेनानेः कारुण्यं तस्याश्च विलापः । गंगासागरमुत्तीर्यारण्ये सिंहनिनाद । गत्वा कृतान्तवदनस्तस्थौ किञ्चिद्विचिन्तयन् ॥ ३०९ ॥ साधुं म्लानमुखं तं च प्रेक्ष्य सीताब्रवीदिति । कथमित्थं स्थितोऽसि त्वं सशोक इव दुर्मनाः ? ॥ ३१० ॥ कृतान्तः कथमप्यूचे दुर्वचं वच्म्यहं कथम् ? | दुष्करं कृतवांश्चैतत् प्रेष्यभावेन दूषितः ॥ ३११ ॥ राक्षसावाससंवासापवादाल्लोकजन्मनः । भीतेन देवि ! रामेण त्याजितासि वनेऽनघे ॥ ३१२ ॥ अपवादे चराख्याते रामं त्वत्त्यजनोद्यतम् । न्यषेवीलक्ष्मणो लोकं प्रति क्रोधारुणेक्षणः ॥ ३१३ ॥ सिद्धाज्ञया निषिद्धश्च रामेण स रुदन् ययौ I अहं च प्रेषितोऽसुमिन् कार्ये पापोऽस्मि देवि ! हा ॥ ३१४ ॥ अमुमिच्छ्वापदाकीर्णे मृत्योरेकनिकेतने । जीविष्यसि मया त्यक्ता स्वप्रभावेण केवलम् ॥ ३१५ ॥ तच्छ्रुत्वा स्यन्दनात् सीता मूर्च्छिता न्यपतद्भुवि । मृतेति बुद्ध्या सेनानीः पापमन्यो रुरोद सः ॥ ३१६ ॥ सीतापि वनवातेन कथञ्चित् प्राप चेतनाम् । भूयो भूयोऽप्यमूर्च्छच्च चेतनामाससाद च ॥ ३१७ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy