SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ ३० करुणरसकदम्बकम् [ १९ ] परासुं लक्ष्मणं दृष्ट्वा रामादीनां विलापः । पेरासुं लक्ष्मणं प्रेक्ष्य तत्र चान्तः पुरस्त्रियः । चक्रन्दुः सपरीवारा विलुलकुन्तलालिकाः ॥ १२७ ॥ तच्चक्रन्दितमाकर्ण्य तत्र रामः समाययौ । उवाच च किमारब्धनविज्ञायाप्यमङ्गलम् ॥ १२८॥ जीवन्नेवैष तिष्ठाभि जीवत्येष च मेऽनुजः । कोऽप्यमुं बाधते व्याधिर्भेपजं तत्यतिक्रिया ॥ १२९ ॥ इत्युक्त्वा जुहवद्रामो वैद्याज्योतिषिकानपि । प्रयोगं मंत्रतन्त्राणां कारयामास चासकृत् ॥ १३० ॥ वैफल्ये मन्त्रतन्त्राणां मूर्च्छा प्राप रघूद्वहः । कथञ्चि लब्धसज्ञः सन् विललापोच्चकैः स्वरम् ॥ १३१ ॥ तें विभीषणसुग्रीवशत्रुताद्या उदश्रवः । विमुक्तकण्ठं रुरुदुर्हताः स्म इति भाषिणः ॥ १३२ ॥ कौशल्याद्या मातरश्च स्नुपाभिः सह साश्रवः । भूयो भूयोऽपि मूर्च्छन्त्यश्चक्रन्दुः करुणस्वरम् ॥ १३३ ॥ प्रतिमार्ग प्रतिगृहं प्रत्यहं क्रन्दनात्तदा । शोकाद्वैतमभूत् सर्वं रसान्तरमलिम्लुचम् ॥ १३४ ॥ - त्रिषष्टि० प० ७, स० १०, पृ० १२७॥ १ मृतम् । २ विलुन् कुंतलालि: केशपंक्तिर्यासां ताः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy