SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ १८ करुणरसकदम्बकम् [९] राज्यभ्रष्टे धनवाहननृपस्य पश्चात्तापः । 1 हृष्टाः कुस्वामिनाशेन, तुष्टाः सुस्वामिनो गुणैः । ते पौरसैनिका लोकास्ततः किं किं न कुर्वते ॥ ८५३ ॥ अहं तु चारके तत्र, पुरीषमलपिच्छिले । मूत्रान्त्रक्लेदजाम्बालदुर्गन्धे गर्भसन्निभे ॥ ८५४ ॥ क्षुधा क्षामोदरो बद्ध:, परिभूतो विगर्हितः । स्मृतदुश्चेष्टितैः क्रुद्धैर्वालकैरपि ताडितः ॥ ८५५ ॥ अनेकयातनास्थाने, स्ववर्गेणावधीरितः । प्राप्तः शारीरसन्तापं, नरकेष्विव नारकः || ८५६ ॥ महामोहवशीभूते, राज्यभ्रष्टे तथा मयि । यः सञ्जातो मनस्ताप:, स त्वाख्यातुं न पार्यते ॥ ८५७ ॥ तथाहि ममेदं विपुलं राज्यं मामकीना विभृतयः । अधुनाऽन्ये प्रभोक्तार इति शोकेन पीडितः ॥ ८५८ ॥ सुखलालितदेहोऽहमधुना त्वीदृशी गतिः । सर्वस्य परिभूतोऽहमित्यैरत्या कदर्थितः ॥ ८५९ ॥ लुम्पन्ति मामकमिदं, रत्नस्वर्णादिकं जनाः । एते हा हा हतोऽस्मीति बाधितो धनमुर्च्छया ॥ ८६० ॥ १ अप्रीत्या । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy