SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ( ८७ ) संप्रदीयते यस्मै तद्गवादिदानविषयभूतं संप्रदानं तस्मिश्चतुर्थी विहिता। अपादीयते वियुज्यते तस्मात्तद्वियुज्यमानावधिभूतमपादानं तत्र पंचमी विहिता । स्वमात्मीयं सचित्तादि स्वामी राजा तयोर्वचने तत्संबंधी प्रतिपादने षष्ठी विहिते त्यर्थः। संनिधीयते आधीयते यस्मिस्तत्संनिधानमाधारस्तदेवार्थस्तास्मन् सप्तमी विहिता। अष्टमी संबुद्धिरामंत्रणी भवेदामंत्रणार्थे विधीयत इत्यर्थः । एनमेवार्थ सोदाहरणमाह । तत्थ पढ़मेत्यादिगाथाश्चतस्रोगतार्था एव नवरं प्रथमा विभक्तिनिद्देशे क यथा इत्याह सो इमोत्ति अयं अहं वति वा शब्द उदाहरणांतरसूचकः।।उपदेशे द्वितीया क यथा इत्याहि भण कुरु वा किं तदित्याह इदं प्रत्यक्षं तद्रा परोक्षभिति । तृतीया करणे क यथेत्याह भणितं वा कृतं वा केनेत्याह तेन वा मयावेति अत्र यद्यपि कर्तरि तृतीया प्रतीयते तथापि विवक्षाधीनत्वात्कारक प्रवृत्तस्तेन मया वा कृत्वा भणितं कृतं वा देवदत्तेन गम्यत इत्येवं करणविवक्षापि न दुष्यतीति लक्षयामस्तत्त्वं तु बहुश्रुता विदंतीति । हदि नमो साहाए इत्यादि हंदीत्युपदर्शने नमो देवेभ्यःस्वाहा अग्नये इत्यादिषु संप्रदाने चतुर्थी भवतीत्येके अन्ये तूपाध्यायाय गां ददातीत्यादिष्वेव संप्रदाने चतुर्थी मिच्छति । अपनय गृहाण एतस्मादितो वा इत्येवमपादाने पंचमी । तस्य अस्य गतस्य वा कस्य भृत्यादेरिति गम्यते इत्येवं स्वस्वामिसंबंधे षष्ठी। तद्वस्तु बदरादिकं अस्मिन् कुंडादौ तिष्ठतीति गम्यते इत्येवमाधारे सप्तमी भवति तथा कालभावत्ति कालभावयोश्चेयं द्रष्टव्या तत्र काले यथा मधौ रमते भावे तु चारित्रेऽवतिष्ठते । आमंत्रणे भवे.. वेदष्टमी यथा हे युवन्निति वृद्धवैयाकरणदर्शनेन चेयमष्टमी गण्यते. इंदं युगानां स्वसौ प्रथमेति मंतव्यम् । इह च नामविचार प्रस्तावाद. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034517
Book TitleJain Bhanu Pratham Bhag
Original Sutra AuthorN/A
AuthorVallabhvijay
PublisherJaswantrai Jaini
Publication Year1910
Total Pages124
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy