SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ( १९ ) यत्पुनभीवेंद्राद्यर्थराहितं साकारमनाकारं वा तदर्थाभिप्रायेण क्रियते तत् स्थापनेति तात्पर्यमित्यार्यार्थः । नामस्थापनानिक्षेपभेदवर्णनम् । प्रसंगान्नामस्थापनयोर्विशेषः प्रतिपाद्यते 66 अत्र नामस्थापनयोरभेदं पश्यन्निदमाह " नाम ठवणाणं कोपइविसेसोत्ति ” नामस्थापनयोः कः प्रतिविशेषो न कश्चिदित्यभिप्रायः । तथाह्यावश्यकादि भावार्थशून्ये गोपालदारकादौ द्रव्यमात्रे यथा आवश्यकादि नाम क्रियते तत्स्थापनापि तथैव तच्छून्ये काष्ठकर्मादौ द्रव्यमात्रे क्रियतेऽतो भावशून्ये द्रव्यमात्रे क्रियमाणत्वा विशेषान्नानयोः कश्चिद्विशेषः । अत्रोत्तरमाह । नामं आवकहियमित्यादि ” नाम यावत्कथिकं स्वाश्रयद्रव्यस्यास्तित्वकथां यावदनुवर्त्तते न पुनरंत राप्युपरमते । स्थापना पुनरित्वरा स्वल्पकालभाविनी वा स्याद्यावत्कार्थका वा । स्वाश्रयद्रव्ये अवतिष्ठमानेपि काचिदंतरापि निवर्त्तते काचित्तु तत्सत्तां यावदवतिष्ठते इति भावस्तथाहि - नाम आवश्यकादिकं मेरु जंबूद्वीप कालिंग मगध सुराष्ट्रादिकं च यावत् स्वाश्रयो गोपाल दारकदेहादिः शिलासमुच्चयादि व समस्ति तावदव तिष्ठत इति तद्यावत्कथिकमेव । स्थापना तु आवश्यक Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com "" ""
SR No.034517
Book TitleJain Bhanu Pratham Bhag
Original Sutra AuthorN/A
AuthorVallabhvijay
PublisherJaswantrai Jaini
Publication Year1910
Total Pages124
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy