SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ भट्टिकाव्ये – प्रथमे प्रकीर्णकाण्डे लक्षण-रूपे तृतीयो वर्गः, केकय्युपज्ञम् । केकय्याः प्रथमतो ज्ञातं नान्यस्य कस्यचित्पूर्वं ज्ञातम् । उपज्ञायत इत्युपज्ञम् | '२८९८। आतश्चोपसर्गे | ३|१|१३६ । ' इति स्त्रियामङ् । कृल्लक्षणा षष्ठी । केकय्या उपज्ञेति समासः । ' ८२४ । उपज्ञोपक्रमं । २।४।२१।' इति नपुंसकता । बत कष्टम् । बह्वनर्थ बहुदोषम् । क्लेशमरणाद्यनिष्टानां सम्भवात् ॥ भरतकृत एवायं प्रयोग इत्येतत्परिहरन्नाह - ६० ११४ - नैतन्मतं मत्कमिति ब्रुवाणः सहस्र-शो ऽसौ शपथानशप्यत् ॥ उद्वाश्यमानः पितरं स-रामं लुव्यन् स-शोको भुवि रोरुदान्वान् ॥ ३२ ॥ नैतदित्यादि -- यदेतत्केकय्यनुष्ठितं मतमभिप्रायः । न मत्कृतं तत् । नाहमस्य ग्रामणीर्न प्रभुरिति । अस्मच्छब्दात् ' १८७८ । स एषां ग्रामणीः | ५|२|७८' इति कन् । '१३७३ | प्रत्ययोत्तरपदयोश्च | ७|२| १८ |' इति मपर्यन्तस्य मादेशः । नास्मन्मतादनुष्ठितमनयेत्यर्थः । इत्येवं ब्रुवाणः सहस्रशो बहुवारानसौ भरतः शपथान् सम्प्रत्ययकारणवचनानि अशप्यत् कृतवान् । अनेकार्थत्वाद्धातूनां शपेदैवादिकस्य उभयपदिनो लङि रूपम् । उद्वाश्यमानः आह्वयन् । '१२३८ | वाट शब्दे ।' दैवादिकः अनुदात्तेत् । पितरं सरामं हा तात ! हा रामेति । लुब्यन् भुवि लुठन् । '१३०१। लुठँ विलोडने ।' दैवादिकः परस्मैपदी । सशोक इति शाव्यपरिहारार्थम् । रोरुदावान् अत्यर्थ रोदनं कुर्वन् । यङन्तात् '३२७९ । अप्रत्ययः | ३ | ३|१०२ ।' इत्यकारः । '२३०८। अतो लोपः | ६ |४| ४८ | ' ' १२६३१॥ यस्य इलः ।६।४।४९।' स्त्रियामतष्टाप् । सा विद्यते यस्येति मतुप् ॥ ११५ - तं सुस्थयन्तः सचिवा नरेन्द्र दिधक्षयन्तः समुदूहुरारात् ॥ अन्त्यऽऽहुतं हावयितुं स विप्राशू चिचीषयन्तोऽध्वर - पात्र - जातम् ॥ ३३ ॥ 1 तमित्यादि - सचिवा अमात्याः । कार्येषु सचन्ते समवयन्तीति सचेरिवचित्यौणादिक इवन् । तं भरतं सुस्थयन्तः सुस्थं कुर्वाणाः । तत्करोतीति णिच् । नरेन्द्रं दशरथं । समुदूहुः उद्वाहितवन्तः । शिबिकायामारोप्य । वहिरन्तर्भावितण्यर्थोऽत्र द्रष्टव्यः । यजादित्वात्सम्प्रसारणम् । आरात् नातिदूरे । दिधक्षयन्तः दग्धुमिच्छन्तं भरतं प्रयोजितवन्तः । दहेः सनि '३२५) दादेर्धातोर्घः | ८|२|३२|' भष्भावचर्व्वे । प्रयोजकव्यापारे णिच् । अन्ते विनाशे भवा या आहुतिः '१४२९| दिगादि - | ४|३|५४|' इति यत् । तामन्त्याहुतिं हावयितुमद्यौ प्रक्षेपयितुं । सविप्राः ब्राह्मणैः सहिताः सचिवाश्चिचीषयन्तः चेतुं निधातुमिच्छन्तः प्रयोजितवन्तः । किंतत् अध्वरपात्रजातं यज्ञोपयोगिपात्राणां खुवादीनां समूहम् ॥ I Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy