________________
तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम तृतीयः सर्गः -
३६७ |' इति मुम् । कुमारो यस्य स प्रियंभविष्णुः । यस्यापि प्राक् प्रियो न जातः पश्चादपि तथैव न प्रियो भूतः स नासीत् न बभूव ॥ ८४ - ततः सुचेतीकृत- पौर- भृत्यो 'राज्येऽभिषेक्ष्ये सुर्तमित्य-नीचैः ॥ आघोषयन् भूमिपतिः समस्तं भूयोऽपि लोकं सुमनीचकार ॥ २ ॥
तत इत्यादि -- ततः प्रियंभविष्णुताया अनन्तरं भूमिपतिर्दशरथो लोकं सुमनीचकार । किमयं सम्यक् पालयिष्यति न वेति असुचेतसः पौरा भृत्याश्च जाताः ते सम्यक्पालनात् सुचेतसः कृता येन स सुचेतीकृतपौरभृत्यः । भूयोऽपि पुनरपि लोकं समस्तं सुमनीचकार । कथमित्याह - राज्ये राजकर्मणि पालनलक्षणे सुतं रामं अभिषेक्ष्ये तदभिषेकं करिष्यामीति । सिचेरुभयपदित्वात । अनी चैर्महता ध्वनिना । आघोषयन् घोषणां कारयन् । सुचेतीसुमनीशब्दौ २१२१| अरुर्मन - |५|४|११|' इत्यादिना साधू ॥ ८५ - आदिशद । दीप्त - कृशानु-कल्पं सिंहासनं तस्य स - पादपीठम् ॥ सन्तप्त-चामीकर-वल्गु-वज्रं विभाग-विन्यस्त-महार्घ-रत्नम् ॥ ३ ॥
४७
आदिक्षदित्यादि - तस्य रामस्य सिंहासनमादिशत् आदिष्टवान् एवंविधं कारयेति । दिशेः स्वरितेतो लुङि '२३३६ । शल इगुपधात् 1३1१1४५१' इत्यादिना चलेः क्सः । अकर्तृगामि क्रियाफलत्वात्तिप् । आदीप्तकृशानुकल्पं ज्वलिताग्नितुल्यम् । तस्य कारणमाह – सन्तप्तचामीकरवर्णानि उत्तप्तसुवर्णवर्णानि वज्राणि यस्मिन् । तथा विभागेषु विन्यस्तानि अतिमहार्घाणि रत्नानि पद्मरागादीनि यत्र । सपादपीठं सह पादपीठेन ॥
८६ - प्रास्थापयत् पूग - कृतान् स्व-पोषं
पुष्टान् प्रयत्नाद् दृढ - गात्र वन्धान् ॥ स- भर्म-कुम्भान् पुरुषान् समन्तात् पत्काषिणस् तीर्थ- जलऽर्थमा॑शु ॥ ४ ॥
प्रास्थेत्यादि - तीर्थजलार्थं पुरुषान् प्रयत्नात् आदरेण । समन्तात् सर्वासु 'दिक्षु । आशु शीघ्रं प्रास्थापयत् प्राहिणोत् । प्रपूर्वस्तिष्ठतिर्गमने वर्तते तस्य हेतुमण्ण्यन्तस्य लङि रूपम् । पूगकृतान् अपूगाः पूगाः कृता इति । 'श्रेण्यादिषु च्व्यर्थ
१ टीकनं ( टिप्पणं) नोत्सहे कर्तुं प्रवासे नायकस्य मे ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com