________________
तथा लक्ष्य-रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः -
३१
I
अपूपुजन्नित्यादि - वनवासिमुख्याः महर्षयो विष्टरादिभिः अपूपुजन् पूजितवन्तः । तौ क्षितिपालपुत्रावित्यर्थात् द्वितीयान्तेन योज्यम् । वनवासीति १९७६ । शय-वास - | ६ | ३ | १८ |' इत्यादिना विकल्पेन सप्तम्या अलुक् । पूजेः स्वार्थिकण्यन्तस्य णौ चङि ह्रस्वः । '२३१८ | दीघों लघोः | ७|४|१४|' इति अभ्यासस्य दीर्घः । विष्टरमासनम् । '३२३३ | वृक्षासनयोर्विष्टरः | ८|३|९३ । ' इति निपातनात् । पाद्यं पादार्थमुदकम् । २०५३ । पादार्घाभ्यां च | ५ |४| २५ | ' इति यत् । तदर्थत्वापद्भावाभावः । माल्यानि कुसुमानि । मालायां साधूनि | '१६५०। तत्र साधुः | ४|४|१८|' इति यत् | आतिथ्य - निष्णाः अतिथ्यर्थम् आतिथ्यम् । ‘२०९४ । अतिथेर्न्यः | ५ |४| २६ । ' तत्र निष्णाः कुशलाः | '३०८२ । नि नदीभ्यां नातेः कौशले |८|३|८९ | ' इति पत्वम् । तौ च क्षितिपालपुत्रौ रामलक्ष्मणौ तदासनादि प्रत्यग्रद्दीष्टां प्रतिगृहीतवन्तौ । प्रतिपूर्वाद् ग्रहेर्लुङ् । तसस्ताम् । '२५६२। ग्रहो लिटि - १७|२|३७|' इति दीर्घः । त्वष्टुत्वे । मधुपर्क - मिश्रम् मधुपर्केण सहेत्यर्थः ॥
1
५४ - दैत्या॒ऽभिभूतस्य यु॒वम॑वोढं
॥
मग्नस्य दोर्भिर् भुवनस्य भारम् हवींषि संप्रत्यपि रक्षतं, तौ तपोधनैरि॑त्थम॑भाषिषाताम् ॥ २७ ॥
I
दैत्येत्यादि - दितेरपत्यानि दैत्याः । '१०७७ । दित्यदित्या - 1४1१1८५ |' इत्यादिना ण्यः । तैरभिभूतस्य मनस्य शरण्यस्य भुवनस्य भारमितिकर्तव्यतालक्षणं दोर्भिर्भुजैः युवामवोढम् ऊढवन्तौ । नरनारायणौ युवामित्युक्तौ । त्वं च त्वं चेति एकशेषः । अवोढमिति वहेर्लुङ् । थसस्तम् । हलन्तलक्षणा वृद्धिः । सिज्लोपः । ‘२३५७। सहि हो: - १६ |३|११२ | ' इत्योत्वम् । ढत्वष्टुत्वढलोपाः । दोरिति दमेडसित्यैौणादिको डोस् । हवींषि होतव्यानि । सम्प्रत्यपि रक्षतम् । अर्चिरुचिहुसृपिच्छादिच्छर्दिभ्य इसिरित्यौणादिक इसिः । राक्षसैरुपहन्यमानानि रक्षतम् । प्रार्थनायां लोट् । शप् । थसस्तम् । इत्थमिति (१९६५ । इदमस्थमुः २५|३|२४|' अनेनोक्तप्रकारेण । तपोधनैस्तप एव धनं येषामिति । अभाषिषाताम् अमिहितौ । भाषतेः कर्मणि लुङ् । सिजिटैौ ॥
५५ - तान् प्रत्यवादीद॑थ राघवोऽपि -, यथेप्सितं प्रस्तुत कर्म धर्म्यम्, ॥
१ - '६४४ 'भुज · बाहू प्रवेष्टो दो: ।'
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com