SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ श्री भट्टिकाव्य-सुधारणा - १. यद्यपि बहु नाधीषे तथापि पठ पुत्र ! व्याकरणम् । स्वजनः श्वजनो मा भूत् सकलं शकलं सकृत् शकृत् ॥ २. अ-विदित-श-ष-स-विशेषा वाणी वक्रात् विनिर्गता येषाम् । गुद-वदन- विवर-भेदो रदनैरेवोपल लक्ष्यते तेषाम् ॥ ३. अष्टाध्यायी जगन्माता, मर-कोशो जगत्पिता । भट्टिकाव्यं गणेशश्च त्रयीयं सुख-दाऽस्तु वः ॥ ४. शब्द वाक्य पद च्छेद-स्थूलाक्षर - विशेषदृक् । सुधारकैः सुधार्यासौ पुस्तक - स्थापने यदि - ॥ ५. स्थाप्येते गद्य-पद्येषु सच्छात्रानुग्रहेच्छया । मूलदेवार्थसिद्धिः स्यात् किं टीकायाः प्रयोजनम् ॥ ६. अ-संस्कारं वि कोशं चोऽपच्छन्दश्चानलङ्कृति । नीरसं तद्भवेत्काव्यमित्याहुः काव्य- कोविदाः || ७. व्याकृत्या कोश - छन्दोभ्यामलङ्कत्या रसेन च । पञ्चकेनान्वितं काव्यं भट्टि काव्यं विराजते ॥ ८. व्याकृति चषके पेयं राम-राज- कथामृतम् । शब्द- वाक्य पद-च्छेद-स्थूलाक्षर - विशेषदृक् ॥ ९. सर्वेषामेव ग्रन्थानामेवं भाव्या सुधारणा । अन्ततः शिक्षण-ग्रन्था अप्येवं स्युः सुधारिताः ॥ कै० वि० ना० शा०. १ ( छापणें ). २ ( छापली जाते ). ४ भाषान्तरम्, पक्षे स्पष्टम्. Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com ३ मूलग्रन्थात्, पक्षे बाल- शिष्यात्.
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy