SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ २४ भट्टिकाव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीयो वर्गः, ३८-लताऽनुपातं कुसुमान्यगृह्णात् स, नद्यवस्कन्दमुपास्पृशच् च, ॥ कुतूहलाच्, चारु-शिलोपवेशं काकुत्स्थ ईषत् स्मयमान आस्त. ॥ ११ ॥ लतेत्यादि-३३७८॥ विशि-पति-पदि-स्कन्दा व्याप्यमानासेव्यमानयोः।। ४५६।' इति द्वितीयान्त उपपदे णमुल्विधीयते । तत्र व्याप्यमाने द्रव्यवचनस्य आसेव्यमाने च क्रियावचनस्य '३१३७। नित्य-वीप्सयोः ।।१।४।' इति द्विर्वचनं विधीयते । अत्र तु समासेनैवोकत्वात् नोपयुज्यत इति स्थितम् । स काकुत्स्थो रामो गच्छन् लतां लतामनुपात्य कुसुमान्यगृह्णात् गृहीतवान् । लतामनुपात्यानुपात्य च । '७८४॥ तृतीयाप्रभृतीन्यन्यतरस्याम् ।।२।२१।' इति समासः । ग्रहेर्लङ् । भाप्रत्ययस्य, अपिदिति ङित्त्वे '२४१२। अहि-ज्या-६।१।१६।' इत्यादिना सम्प्रसारणम् ॥ नद्यवस्कन्दमिति नदी नदीम् अवस्कन्ध सर्वां नदीमवस्कन्ध ढौकित्वा नदी वा अवस्कन्धावस्कन्द्य, उपास्पृशत् आचमनं कृतवान् । कुतूहलादिति सर्वत्र योज्यम् ॥ चारुशिलोपवेशमिति चारुशिलाः चारुशिला उपविश्य चारुशिला उपविश्योपविश्य वा आस्त आसितवान् । आसेर्लङि रूपम् । ईषत् मयमानः ईषद्धसन् ॥ ३९-तिग्मांशु-रश्मिच-छुरितान्य-दूरात् प्राञ्चि प्रभाते सलिलान्यपश्यत् ॥ गभस्ति-धाराभिरिव द्रुतानि तेजांसि भानोर् भुवि संभृतानि. ॥ १२ ॥ तिग्मांश्वित्यादि-अदूरात्समीपे सलिलान्यपश्यत् । शेर्लङि '२३६०। पा-घ्रा-19३।७४।' इति पश्यादेशः । तिग्मांशोरादित्यस्य रश्मिभिः छुरितानि रञ्जितानि । तुक् । प्राचि पूर्वस्यां दिशि अवस्थितानि । प्रपूर्वादञ्चतेः '३७३। ऋत्विग्-३।२।५९।' इत्यादिना किम् । अनुषङ्गालोपः । शिः । नपुंसकस्य नुम् । भानोरिव तेजांसि भुवि संभृतानि पिण्डीकृतानि । गभस्तिमिः रश्मिमिः धाराभिरिव दुतानि गलितानि । धारा प्रपात इति भिदा पाठाद्रष्टव्यम् ॥ १'अलं-खल्वोः प्रतिषेधयोः प्रचां क्त्वा (त्वा) ।३।४।१८॥३३१६॥ समान-कर्तृकयोः पूर्व काले - ।३।४।२१॥३३२०॥ आभीक्ष्ण्ये णमुल (अम्) च ३४॥२२॥३३४३॥ समासे ऽनन्-पूर्व क्त्वो ल्यप् (य) ७१॥३७॥३३३२॥ इति सर्वत्राष्टाध्याय्यां पाणिनिः' वै० भ० च । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy