________________
तथा लक्ष्य-रूपे कथानके 'विभीषण- प्रलापो' नामाष्टादशः सर्गः - ४४५
मूर्धजानित्यादि -- [ मूर्धजान् ] केशान्विलुञ्चन्ति स्म अपनयन्ति स्म । अतिविह्वलं अतिवैक्लव्यं । गुणप्रधानो निर्देशः । क्रोशन्ति स्म फूत्कारं कुर्वन्ति स्म । अन्तःपुराणीत्यर्थः । भर्तुश्चोपकाराणां मुहुरधीयन्ति स्म । '११२० इक् स्मरणे' । '६१३। अधीगर्थ - | २|३|५२ |' इति कर्मणि षष्ठी । प्रमन्युचेति क्रियाविशेषणं । प्रकृष्टशोकमित्यर्थः । ' प्रमन्यवः' इति पाठान्तरम् । प्रकृष्टशोका इत्यर्थः ॥
1
१४९७ - रावणस्य नमन्ति स्म पौराः साखा रुदन्ति च ॥'
भाषते स्म ततो रामो वचः पौलस्त्यम कुलम् ॥३९॥
रावणस्येत्यादि - पौराश्च रावणस्य नमन्ति स्म नमस्यन्ति । पादावित्यर्थात् तत्सम्बन्धित्वात् । सास्राश्च सन्तः रुदन्ति च स्म । ततोऽनन्तरं रामः पौलस्त्यं विभीषणं आकुलं वचो भाषते स्म उक्तवान् ॥
1
१४९८ - 'दातुः स्थातुर् द्विषां मूर्ध्नि यष्टुस् तर्पयितुः पितृन् ॥ युद्धाऽभग्नाऽऽविपन्नस्य किं दशाssस्यस्य शोचर्सि ४०
दातुरित्यादि - दशास्यो दाता, द्विषां मूर्ध्नि स्थाता, यष्टा यज्ञानां पितॄन तर्पयिता । ‘१९५६। तृप तृप्तौ' चुरादिः । युधि देवादीनां संग्रामेऽभन्नः अविपन्नः । तस्यैवंविधस्य किं शोचसि । शोच्यमेव नास्ति । वर्तमाने लट् ॥
1
१४९९ - बोभवीति न सम्मोहो व्यसने स्म भवादृशाम् ॥
,
किं न पश्यसि, सर्वो ऽयं जनस् त्वाम॑वलम्बते. ॥४१॥ बोभवीतीत्यादि - भवादृशां युष्मद्विधानां व्यसनेषु दुःखेषु सम्मोहः अज्ञानं न बोभवीति अत्यर्थं न भवति । यङ्लुकि रूपम् । एवं च सति स्वार्थो न हीयते । यतः किं न पश्यसि । भयं सर्वो जनः त्वामवलम्बते 'त्वमेव स्वामी' इति प्रतीक्षते ॥
१५०० - त्वम॑र्हसि भ्रतुर॑नन्तराणि
कर्तुं, जनस्या ऽस्य च शोक - भङ्गम्, ॥ धुर्ये विपन्ने त्वयि राज्य - भारो मज्जत्य॑नूढः क्षणदा-चन्द्र !' ॥ ४२ ॥
इति भट्टिकाव्ये तिङन्तकाण्डे लविलसितो नामाऽष्टादशः सर्गः ॥
त्वमईसीत्यादि - तस्मात् भ्रातुरनन्तराण्यग्निसात्कारादीनि कर्तुं त्वमर्हसि युज्यसे । अस्य च जनस्य शोकभङ्गं शोकापनयनं कर्तुं च । अन्यथा त्वमि
भ० का ० ३८
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com