SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४३६ भट्टि-काव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे पञ्चमो वर्गः, दमाबध्नन् सेवितवन्ति । सुरसमितिः सुरसमूहः नृपं जितारि प्राशंसत् स्तुतवती । अप्येषां अन्यजनानां दिगन्ताः रावणवधाद्विगतपरिप्लवा निरुपद्रवा जाता इत्यर्थात् । पौलस्त्यो विभीषणः विपन्नबन्धुः मृतभ्रातृकः शुचं शोकमजुषत् सेवितवान् । जुषिस्तुदादावनुदात्तेत् ॥ इति श्रीजयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकान्येचतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थः परिच्छेदः (वर्गः), तथा लक्ष्य-रूपे कथानके 'रावण-वधो' नाम सप्तदशः सर्गः ॥१७॥ अष्टादशः सर्गःइतः प्रभृति लटमधिकृत्य लविलसितमाह-तत्र वर्तमाने लट् । ततोऽन्यप्रापि दर्शयिष्यति१४५९-व्यश्रुते स्म ततः शोको नाभि-सम्बन्ध-सम्भवः ।। विभीषणमसावुच्चै रोदिति स्म दशाऽऽननम्. ॥१॥ व्यश्रुत इत्यादि-ततो वधादनन्तरं शोको विभीषणं व्यश्नुते स व्याप्तवान् । '२७७८। लट् स्मे-३।२।११।' इति भूतानद्यतनपरोक्षे लट् । नाभिसम्बन्धेन एकोदरसम्बन्धेन सम्भवो यस्य शोकस्य । असौ प्रवृद्धशोको विभीषणः उच्चैर्महता शब्देन दशाननं नामग्राहं रोदिति स रुदितवान् । तदेव दर्शयन्नाह१४६०–'भूमौ शेते दश-ग्रीवो महार्ह-शयनोचितः, ॥ नेक्षते विह्वलं मां च, न मे वाचं प्रयच्छति. ॥२॥ भूमावित्यादि-महाहंशयने उचितो यः स भूमौ शेते । शोकाद्विलं च मां नेक्षते । मे वाचं प्रतिवचनं न प्रयच्छति न ददाति । ९९६। दाण् दाने'। '२३६०। पा-घ्रा-७३।७४।' इत्यादिना यच्छादेशः ॥ । १४६१-विपाकोऽयं दश-ग्रीव ! संदृष्टो ऽनागतो मया.॥ त्वं तेनाऽभिहितः पथ्यं किं कोपं न नियच्छसि.॥३॥ विपाक इत्यादि हे दशग्रीव ! अयं विपाको मरणलक्षणं फलं अनागतो भविष्यन्नेव मया संदृष्टः सम्यगुपलब्धः । इदानीं पश्यसि तेन कारणेन योऽभि-. हितोऽसि 'सीतां मुन्च' इति । अतः किमिति कोपं न लियच्छसि नापनयसि । नास्स्येव मम दोषः । निपूर्वो यमिरपनयने वर्तते ॥ १४६२-भजन्ति विपदस् तूर्णमतिकामन्ति सम्पदः॥ तान् , मदान नाऽवतिष्ठन्ते ये मते न्यायवादिनाम्.४ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy