SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य-रूपे कथानके 'रावण-वधो' नाम सप्तदशः सर्गः- ४३३ वान् । 'उपसर्गादस्यत्यूयोर्वावचनम्' इति तङ् । तत्पाशुपतं नृपो रामः शक्रानेणाजयत् जितवान् ॥ १४४५-ततः शत-सहस्रेण रामः प्रौर्णोन् निशाचरम् ॥ बाणानामुक्षिणोद् धुर्यान् , सारथिं चाऽदुनोद् द्रुतम्, तत इत्यादि-ततोऽनन्तरं रामः निशाचरं बाणानां शतसहस्रेण लक्षण प्रौर्णोत् छादितवान् । '२४४८। गुणोऽपृक्ते ।।३।९१॥' इति गुणः । द्रुतं धुर्यानश्वान् । १६२८। धुरो यड्डको ।४।४१७७।' इति यत् । अक्षिणोत् हतवान् । सारथिं चादुनोत् उपतापितवान् ॥ १४४६-अदृश्यन्ता ऽनिमित्तानि, प्राह्वलत् क्षिति-मण्डलम्, ॥ रावणः प्राहिणोच्छूलं, शक्तिं चैन्द्रीं मही-पतिः ॥ १००॥ अदृश्यन्तेत्यादि- रावणस्यानिमित्तानि अदृश्यन्त दृष्टानि । कर्मणि लछ । क्षितिमण्डलं प्राबलत् चलितम् । '६२। हल चलने' । रावणश्चानिमित्तानि दृष्ट्रा ब्रह्मदत्तशूलं प्राहिणोत् क्षिप्तवान् । महीपतिः स राम ऐन्द्रीं शक्ति प्राहिणोत् । '१३३७॥ हि गतौ' स्वादिः ॥ १४४७-ताभ्यामन्योन्यमासाद्य समवाप्यत संशमः, ॥ लक्षेण पत्रिणां वक्षः क्रुद्धो रामस्य राक्षसः ॥१०१॥ ताभ्यामित्यादि-ताभ्यां शूल-शक्तिभ्यामन्योन्यमासाद्य संश्लिष्य संशमः संशमनम् । घनि २७६३। नोदात्त-७।३॥३४॥' इति वृद्धिप्रतिषेधः । समवाप्यत प्राप्तः । कर्मणि लङ् । अनन्तरं क्रुद्धो राक्षसः पत्रिणां शराणां लक्षेण शतसहनेण रामस्य वक्षः अस्तृणादिति वक्ष्यमाणेन सबन्धः । छादितवान् । '२५५८। प्वादीनां हवः ।।३।८० ॥ १४४८-अस्तृणादधिकं रामस् ततो ऽदेवत सायकैः, ॥ अक्लाम्यद्रावणसू, तस्य सूतो रथमनाशयत्.॥१०२॥ अस्तृणादित्यादि-ततोऽनन्तरं रामो राक्षसादधिकं भदेवत क्रीडितवान् । "५३३॥ तेवृदेव देवने' इति भ्वादावनुदात्तेत् । स तथा देवबाणेनाहतो रावणः अक्लाम्यत् ग्लानिमुपगतः । तस्य तथाभूतस्य रावणस्य सूतः सारथिः स्वामिजीवितेच्छया रथमनाशयत् दूर अपनीतवान् ॥ १४४९-राक्षसोऽतर्जयत् सूतं पुनश् चाऽढौकयद् रथम् , ॥ निरास्येतामुभौबाणानुभौधुर्यान विध्यताम् ॥१०॥ भ० का०३७ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy