SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ४२४ भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे चतुर्थी वर्गः, १४०२ - अपूरयन् नभः शब्दो बल-संवर्त - संभवः ॥ अपूर्यन्त च दिग् - भागास तुमुलैस तूर्य - निस्वनैः. ५६ अपूरयदित्यादि - बलानां संवर्त एकीभावः तस्मात्संभवो यस्य स शब्दः नभ आकाशमपूरयत् पूरितवान् । तुमुलैस्तूर्यनिस्वनैः महद्भिर्घोषैर्दिग्भागा अपूर्यन्त पूर्णाः । कर्मणि लङ् १४०३ - आसीद् द्वारेषु संघट्टो रथाऽश्व-द्विपरक्षसाम् ॥ सुमहान - निमित्तैश् च समभूयत भीषणैः ॥ ५७ ॥ आसीदित्यादि - रथादीनां निर्गच्छतां लङ्काद्वारेषु संघट्टः सुमहानासीत । जनभूयस्तया संघर्षो ऽभूत् । ' २३२५ | अस्तिसिचोऽपृक्ते | ७ | ३ | १६ | ' इतीट् । अनिमित्तैः भीषणैर्भयंकरैर्महद्भिः समभूयत क्षयकरैर्निमित्तैर्भूतम् । भावे लङ् ॥ १४०४ - कपयो ऽविभयुस् तस्मिन्न॑भञ्ज॑श् च महा- द्रुमान् ॥ प्रोदखायन् गिरींस् तूर्णम॑गृह्णश् च महा- शिलाः.५८ कपय इत्यादि - तस्मिन्निर्गते कपयो ऽविभयुः भीतवन्तः । महाद्रुमांश्च योद्धुमभञ्जन् भग्नवन्तः । गिरीन् प्रोदखायन् उत्खातवन्तः । '९७८ । खै खदने' शिति भत्वं न भवति । महाशिला अगृह्णन् गृहीतवन्तः ॥ १४०५- ततः समभवद् युद्धं प्राहरन् कपि-राक्षसाः, ॥ अन्योन्येना ऽभ्यभूयन्त, विमर्दमसहन्त च ॥ ५९ ॥ तत इत्यादि - ततो ऽनन्तरं युद्धं समभवत् प्रवृत्तम् । कपिराक्षसाः प्राहरन् प्रहृतवन्तः । अन्योन्येनाभ्यभूयन्त कपयो राक्षसैः राक्षसाश्च कपिभिरिति । कर्मणि लङ् । विमर्दमसहन्त च सोढवन्तः ॥ " १४०६ - प्रावर्धत रजो भौमं तद् व्याश्रुत दिशो दश ॥ पराssत्मीय - विवेकं च प्रामुष्णात् कपि- रक्षसाम्. ॥ I प्रावर्धतेत्यादि - बलद्वयप्रक्षोभात् भौमं रजः प्रावर्धत प्रवृद्धम् । तद्वजो दश दिशो व्याञ्जत व्यामोत् । अयं परो ऽयं चात्मीय इति यो विवेकस्तं च प्रामुष्णात् अपनीतवत् । ' १६२९| मुष स्तेये' ऋयादिः ॥ १४०७ - ततो ऽद्विषुर् निरालोके ● स्वेभ्यो ऽन्येभ्यश् च राक्षसाः ॥ अद्विषन् वानराश् चैव वानरेभ्यो ऽपि निर्दयाः ॥ ६१ ॥ तत इत्यादि - ततो ऽनन्तरं निरालोके समरे राक्षसाः स्वेभ्यो ऽन्येभ्यश्वाद्विषुः क्रुध्यन्ति स्म । वानरा अपि वानरेभ्यो ऽद्विषन् निर्देयाः सन्तः । अपि Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy