SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पश्चदशः सर्गः - ३८७ रूपेनात्मनेपदम् । अस्य शोणितं च व्यसुस्रुवत् स्रुतम् । '२३१२ | णि- श्रि|३|१|४६ |' इत्यादिना च । तं सुग्रीवमादाय राक्षसः कुम्भकर्णः पलायिष्ट पलायते स्म । व्यरोचिष्ट रोचते स्म । '७९७ रुच दीप्तौ ' ॥ युग्मम् — १२३८ - अभैषुः कपयो, ऽन्वारत् कुम्भकर्ण मरुत्सुतः, ॥ शनैरबोधि सुग्रीवः, सोऽलुञ्चीत् कर्ण - नासिकम् ५७ अभैषुरित्यादि - तस्मिन्नीते कपयो ऽभैषुः भीताः । मरुत्सुतः कुम्भकर्ण - मन्वारत् अनुगतः । अर्तेः '२३८२ | सर्ति- शास्त्यर्तिभ्यश्च | ३|१|५६ |' इत्यङ् । '२४०६ ।' ऋशो ऽङि गुणः | ७|४ | १६ | ' । सुग्रीवः शनैर्मनागबोधि लब्धसंज्ञो बभूव । ' २३२८ | दीप- जन - | ३ | ११६१|' इत्यादिना बुधेः कर्तरि चिण् । स बुद्धः कर्णनासिकम् । प्राण्यङ्गत्वादेकवद्भावः । अस्यालुञ्चीत् कृत्तवान् । राक्षसस्येति वक्ष्यमाणेन सम्बन्धः ॥ १२३९ - राक्षसस्य, न चा त्रासीत्, प्रनष्टुमंयतिष्ट च ॥ अक्रोधि कुम्भकर्णेन, पेष्टुर्मारम्भि च क्षितौ ॥ ५८ ॥ राक्षसस्येत्यादि - राक्षसस्य कुम्भकर्णस्य सम्बन्धे स सुग्रीवो न चात्रासीत् न त्रस्तः । राक्षसात् प्रनष्टुं पलायितुम् । '२५१७ | मस्जि-नशोर्झलि । ७|१|६०|' इति नुम् । अयतिष्ट च यतते स्म । कुम्भकर्णेनात्मनो ऽवस्थां दृष्ट्वा भक्रोधि क्रुद्धम् । भावे लुङ् । क्षितौ च पेष्टुं चूर्णयितुं सुग्रीव आरम्भि भारब्धः । कर्मणि लुङ् । '२५८१। रभेरशब्लिटोः | ७|१|६३|' इति नुम् ॥ १२४० - सुग्रवो ऽस्या भ्रशर्द्धस्तात्, समगाहिष्ट चा ऽम्बरम् ॥ तूर्णम॑न्वसृपद् राम मननन्दच् च वानरान् ॥ ५९ ॥ सुग्रीव इत्यादि - अस्य कुम्भकर्णस्य हस्तात् सुग्रीवः अभ्रशत् भ्रष्टः । ' १३०४ । भ्रशु अंशु अधःपतने' पुषादिः । स चाम्बरमाकाशमगाहिष्ट भाक्रान्तवान् । ‘६९६। गाहू विलोडने' अनुदात्तेत् । तूर्णं च राममन्वसृपत् अनुगतः । लुदित्वादङ् । वानरांश्च कर्ण - नासिककर्तनेनाननन्दत् तोषितवान् । नन्दतेर्ण्यन्तस्य रूपम् ॥ १२४१-अतत्वरच् च तान् योद्धुमचिचेष्टच् च राघवौ. ॥ कुम्भकर्णो न्यवर्तिष्ट रणेऽयुत्सन्त वानराः ६० अतत्वरदित्यादि - तांश्च वानरान् योद्धुमतत्वरत् त्वरयति स्म 'मा विलम्बध्वम्' इति । त्वरेर्ण्यन्ताच्चङ् । '२५६६ । अत् स्मृ-दृ-स्वर - 1७/४/९५|' इति Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy