________________
तथा लक्ष्य-रूपे कथानके श्री राम संभवो नाम प्रथमः सर्गः -
१० - पुत्रीयता तेन वराऽङ्गनाभिरोनायि विद्वान् ऋतुषु क्रियावान् ॥ विपक्रिम-ज्ञान-गतिर् मनस्वी मान्यो मुनिः स्वां पुरमृष्य-शृङ्गः ॥
पुत्रीयतेत्यादि - पुत्रीयतात्मनः पुत्रमिच्छता । इच्छायाम् ' २६५७| सुप आत्मनः क्यच् | ३ | १|८|' इति क्यच् । ' २६५८ । क्यचि च |७|४|३३|' इतीत्वम् । तेन राज्ञा प्रयोजककर्त्रा वराङ्गनाभिर्वरस्त्रीभिः प्रयोज्यकर्त्रीभिरानायि स्वां पुरमिति योज्यम् । 'नी- वह्यो:' इत्यादेरपि '५३९ | अकथितं च |१|४|५१ | इति चकारेण संगृहीतत्वान्नयतिर्द्विकर्मकः । तत्र प्रधानकर्मणि लुङ् । चिण्णिलोपौ '२३२९॥ चिणो लुक् - १६ |४|१०४ |' इति तशब्दस्य लुक् । गुणकर्मणि तु पुरमिति द्वितीया । ' ५४० | गति - बुद्धि - |१|४|५२ | ' इत्यादिना प्रयोज्यकर्तरि द्वितीया न भवति । 'नी-वह्योः प्रतिषेधः' इति वचनात् । विद्वान्वेदार्थतस्ववित् । एवं च कृत्वा क्रतुषु क्रियावान्प्रशस्तक्रियः । प्रशंसायां मतुप् । विपक्त्रिमज्ञानगतिरिति विपाकेन निर्वृत्तम् । पचतेः क्त्रिः क्त्रैर्मप् । यत्पूर्वजन्मकृतमनिवर्तनीयं कर्म तस्योग्रतपः प्रत्ययाद्विनोपदेशाज्ज्ञानात्प्रवृत्तिर्बुद्धावस्य जातेत्यर्थः । मनस्वी प्रशस्तमनाः । प्रशंसायाम् ' १९२८ । अस्मायामेधा - १५/२/१२१ ॥ ' इत्यादिना विनिः । मान्यो मानार्हः । २८२२ । अहे कृत्यतृचश्च - ३।३।१६९ | ' इति यत् । धर्मादिमननान्मुनिः । ' मनेरुच्चोपधायाः' इति इन् । उपधाया उकारः । ऋष्यस्य शृङ्गमृष्यशृङ्गं तच्छृङ्गमिव श्रृङ्गं यस्य स ऋष्यशृङ्गः । 'सप्तम्युपमान -' इत्यादिनोत्तरपदलोपी समासः ॥
I
११ - ऐहिष्टं तं कारयितुं कृताऽऽत्मा ऋतुं नृपः पुत्र- फलं मुनीन्द्रम्, ॥ ज्ञानाऽऽशयस् तस्य ततो व्यतानीत् स कर्मठैः कर्म सुताऽनुबन्धम् ॥
ऐहिष्टेत्यादि - तं मुनीन्द्रं ऋतुं कारयितुं नृप ऐहिष्ट ईहितवान् । ईहतेरारमनेपदिनो लुङि सेत्वादिटि च रूपम् । द्विकर्मकता तु '५४१ ह क्रोरन्यतरस्याम् । १।४।५३।' इति । कृतात्मा वशीकृतात्मेति भावः । पुत्रफलं पुत्रः फलं कार्ये यस्य ऋतोः ॥ तत उत्तरकालम् । स मुनिः परचित्तज्ञत्वाज्ज्ञाताशयो ज्ञा
१–'१०६३ । क्रियावान् कर्मसूद्यतः ।' इति ना० अ० । 'भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संबन्धेऽस्तिविवक्षायां भवन्ति मतुवादयः ॥' इति वै० भ० । २ - '६७५। ईह चेष्टायाम् ।' इति धा० पा० । ३ - २०६३ । कर्मशूरस् तु कर्मठः ।" इति ना० अ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com