________________
३८४ भट्टि-काव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः, १२२५-ऋषभो ऽद्रीदझेप्सीत् , ते तैररिमतर्दिषुः ॥
अस्फूर्जीद्, गिरि-शृङ्गं च व्यस्राक्षीद् गन्धमादनः॥ ऋषभ इत्यादि-ऋषभो नाम कपिरद्रीनुदक्षैप्सीत् उत्क्षिप्तवान् । ते शरमादयस्तैर्वृक्षादिमिररिमतर्दिषुः हतवन्तः । ५९। तर्द हिंसायाम् ।' गन्धमादनो नाम कपिरस्फूर्जीत् वज्रमिव । गिरिशृङ्गं च व्यस्नाक्षीत् विसष्टवान् । सृजिस्खौ. दादिक उदात्तेत् ॥ १२२६-अकूर्दिष्ट, व्यकारीच् च गवाक्षो भू-धरान् बहून्.॥
स तान् नाऽजीगणद् वीरः कुम्भकर्णोऽव्यथिष्ट न. ४५ अर्दिष्टेत्यादि-गवाक्षो नाम कपिः अकूर्दिष्ट क्रीडापूर्वकं चेष्टते स्म । भूधरान् महीधरांश्च व्यकारीत् विक्षिप्तवान् । वीरः कुम्भकर्णस्तान् शरभादीन् नाजीगणत् न गणयामास । अजगणदिति पाठान्तरम् । तत्र चकारेणात्वमप्यनुवर्तते । न चाव्यथिष्ट व्यथितोऽभूत् ॥ १२२७-अमन्थीच् च पराऽनीकर्मप्लोष्ट च निरङ्कुशः, ॥
निहन्तुं चाऽत्वरिष्टाऽरीनजक्षीच चाऽङ्कमागतान्.॥ अमन्थीदित्यादि-परानीकं शत्रुसैन्यममन्थीव क्षोभितवान् 'मन्थ विलो. डने।' निरङ्कुशश्चाप्रतिहतशक्तिः अप्लोष्ट भ्रान्तवान् । १०२६। प्लुङ् गतौ' । अरींश्च वानराविहन्तुमत्वरिष्ट त्वरते स्म । ८३॥ जित्वरा संभ्रमे।' अक्षं च समीपमागतानजक्षीत् भक्षितवान् । ११४५। जक्ष भक्ष-हसनयोः' इति भक्षणे जक्षिः ॥ १२२८-व्यक्रुक्षद् वानराऽनीक, संपलायिष्ट चाऽऽयति, ॥ ___ हस्ताभ्यां नश्यदकाक्षीद्, भीमे चौपाधिताऽऽनने.४७
व्यक्रुक्षदित्यादि-तस्मिन्त्रायत्यागच्छति सति, आयूर्वस्येणः शतरि रूपम्। वानरानीकं व्यक्रुक्षत् विक्रोशति स्म । '२३३३। शल इगुपधादनिटः क्सः। ।३।११४५।' संपलायिष्ट पलायते स्म । तच्च नश्यत्पलायमानं हस्ताभ्यामकाक्षीत् आकृष्टवान् कुम्भकर्णः । 'कृष विलेखने' । '२४०२। अनुदात्तस्य च-1६।१५९।' इत्यम् । हलन्तलक्षणा वृद्धिः । आकृष्टं चातिभीमे ऽतिभयङ्करे विकृते मानने वक्के उपाधित न्यस्तवान् । धान् । '२३८९। स्था वोरिच्च । १।२।१७ ॥ १२२९-रतना ऽचिक्लिदद् भूमि,
सैन्यैश् चा ऽतस्तरद्धतैः, ॥ ना ऽतासद् भक्षयन् क्रूरो,
ना ऽश्रमद् घ्नन् प्लवङ्गमान्, ॥४८॥ रक्तेनेत्यादि-वानरानीकस्य रकेन भूमिमचिक्लिदत् क्लेदितवान् १३२१॥ किदू भाीभावे। तस्य ण्यन्तस्य चङि रूपम् । सैन्यैश्च हतैर्भूमिमतस्तर छादितShree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com