________________
३८० भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे द्वितीयो वर्गः,
यामाङः | ३ | ३ | ३१ |' इति तङ् । '२४२९| आत्मनेपदेष्वन्यतरस्याम् | ३ | १|५४ | ' इत्यङभावपक्षे रूपम् ॥
"
१२१० - प्राशीन् न चा तृपत् क्रूरः, शु॒च् चाऽस्याऽवृधद॑श्नतः, ॥ अधाद् वसाम॑धासीच् च रुधिरं वन - वासिनाम् ॥ २९ ॥
प्राशीदित्यादि - प्राशीत् भक्षितवान् । वनवासिन इत्यर्थात् । न चासौ क्रूरः दुष्टचेता अतृपत् तृप्तवान् । पुषादित्वादङ् । भश्नतो ऽप्यस्य खादतः क्षुत् बुभुक्षा अवृधत् वर्धते स्म । ' ८१२ | वृधु वृद्धौ' द्युतादिः । वनवासिनां वानराणां वसामधात् पीतवान् । '२३७६। विभाषा घ्रा धेट् - 1२1४७८|' इति सिचो लुकपक्षे रूपम् । रुधिरं चाधासीत् । '२३७५॥ विभाषा धेट् श्वयोः | ३ | १|४९| इति चङभावपक्षे रूपम् ॥
१२ ११ - मांसेना sस्या ऽश्वतां कुक्षी, जठरं चा ऽप्यशिश्वियत्, ॥ बहूनाम॑ग्लुचत् प्राणानग्लोचीच् च रणे यशः. ॥ ३० ॥
मांसेनेत्यादि - वनवासिनां मांसेनास्य कुम्भकर्णस्य कुक्षी उदरपाव अश्वतां शूनौ । ' २२९१| जू-स्तम्भु | ३ | १|५८ | ' इत्यादिना भङ्ग । ' २४२१। श्वयतेरः ७|४|१८|' इत्यत्वम् । जठरं चोदरमशिश्वियत् शूनम् । '२३७५॥ विभाषा धेट्• श्योः | ३ | १|४९ |' इति च । इयङादेशः । बहूनां वनवासिनां प्राणानग्लुचत् हृतवात् । ‘२०६। म्रुचुग्लुचु कुजु खजु स्तेयकरणे' । '२२९१ जृ स्तम्भु - |३|१|५८ ।' इत्यादिना भविकल्पनादङभावपक्षे रूपम् । यशश्च बहूनां रणे भग्लोचीत् अपनीतवान् । 'वचु-चक्षु' इत्यादौ ग्लुचिर्गत्यर्थः । भङभावपचे रूपम् ॥
१२१२ - सामर्थ्यं चा ऽपि सो ऽस्तम्भीद्
विक्रमं चाऽस्य ना ऽस्तभन्, ॥ शाखिनः केचिदध्यष्ठुर् न्यमाङ्क्षुरपरे ऽम्बु-धौ ॥ ३१ ॥
सामर्थ्यमित्यादि-स कुम्भकर्णः केषांचिद्बलवतामपि वनवासिनां साममस्तम्भीत् नियमितवात् । भङभावपक्षे रूपम् । विक्रमं च केचिदस्य नास्तभन् नियमितवन्तः । अङ्गपक्षे रूपम् । क्वित्यनुनासिकलोपः । केचिद्भयाद् वृक्षानयः अधिष्ठितवन्तः । तिष्ठतेः '२२२३ । गाति -स्था - १२४७७१' इति सिचो लुक् । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com