SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य-रूपे कथानके 'शर-बन्धो' नाम चतुर्दशः सर्गः- ३७१ ११७६-सेहे कपी, रथाऽश्वांश् च रिपोस् ततर्ह शाखिना, ॥ धरित्री मुसली तेये प्रहस्तश् , चिखिदे न च, १०८ सेह इत्यादि-कपिर्नीलो बाणान् सेहे सोढवान् रथानवांश्च रिपोः प्रहस्तस्य शाखिना तरुणा ततह हतवान् । '१५४९॥ तृह हिसि हिंसायाम् । हत. रथाश्वस्य प्रहस्तो मुसली गृहीतमुसलः धरित्री तेये गतवान् । ५०८॥ ५१०॥ भय पय' इत्यत्र तयिरनुदात्तेत् । न च चिखिदे खिन्नः । १५४३ । खिद दैन्ये इत्यनुदात्तेत् ॥ ११७७–संदुधुक्षे तयोः कोपः, पस्फाये शस्त्र-लाघवम् , ॥ नुनोद शाखिनं नील, आवत्रे मुसली तरुम् ,॥१०९॥ सन्दुधुक्ष इत्यादि-तयोर्नीलाहस्तयोः कोपः संदुधुक्षे वृद्धिं गतः । अस्त्रलाघवमस्त्रकौशलं पस्फाये वृद्धि गतम् । नुनोद शाखिनं प्रेरितवान् । मुसली प्रहस्तः तरुमावत्रे मुसलेनावृतवान् ॥ ११७८-वियत्यानभ्रतुर्, भूमौ मण्डलानि विचेरतुः, ॥ प्रदुद्रुवतुरेन्योन्यं वीरौ, शश्रमतुर् न च, ॥११०॥ वियतीत्यादि-वीरौ तौ वियति भाकाशे आनभ्रतुः गतौ । ५९७१५९४ अभ्र वभ्र' इति गत्यर्थः । वियतोऽधिकरणत्वेन विवक्षितत्वात् द्वितीया न कृता। भूमौ च मण्डलानि तिर्यग्भ्रमणानि विचेरतुः आचरितवन्तौ । भन्योन्यं प्रदुगुवतुः उपतापितवन्तौ । न च शश्रमतुः श्रान्तौ ॥ ११७९-समीरयांचकारा ऽथ राक्षसस्य कपिः शिलाम्,॥ क्षतस तया ममारा ऽसावाशिधाय च भू-तलम.॥ समीरयामित्यादि-अथानन्तरं कपिः राक्षसस्य शिलां समीरयांचकार क्षिप्तवान् । '१९४७। ईर क्षेपे' इति चौरादिक उदात्तेत् । असौ राक्षसस्तया शिलया हतः सन् ममार मृतवान् । भूतलं च आशिश्राय आश्रितवान् । पतित इत्यर्थः ॥ ११८०-तुतुषुर् वानराः सर्वे, नेशुश् चित्रा निशा-चराः, ॥ जेरुराशा दशास्यस्य, सैन्यं नीलं नुनाव च,॥११२॥ तुतुषुरित्यादि-वानराः सर्वे तुतुषुः तुष्टाः । निशाचरा नेशुः पलायिताः । विचित्राः नानाप्रकाराः दशास्यस्य आशाः मनोरथा जेरुः जीर्णाः । २३५६। वा जु-भ्रमु-त्रसाम् ।६।४।१२४।' इत्येत्वम् । सैन्यं च कर्तृ नीलं नुनाव स्तौति स्म । ११८१-यदा न फेलुः क्षणदा-चराणां ____ मनोरथा राम-बलाऽभियोगे, ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy