SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य-रूपे कथानके 'शर-बन्धो' नाम चतुर्दशः सर्गः - ३५९ सक्थ्यक्ष्णोः - |५|४|११३।' इति समासान्तष्टच् । रिपुमिन्द्रजितं खे स्थितं विदांचकार ज्ञातवान् । '२३४१ | उप-विद - | ३|१|३८|' इत्यादिना आम् । ननर्द च शब्दितवान् । क्केदानीं यास्यसीति ॥ १११९ - उज्जुगूरे ततः शैलं हन्तुमिन्द्रजितं कपिः ॥ विहाय रावणिस् तस्मादनंहे चा ऽन्तिकं पितुः ५१ • उज्जुगूर इत्यादि - ततो ऽनन्तरं कपिः सुग्रीवः इन्द्रजितं हन्तुं शैलमुज्जुगूरे उत्क्षिप्तवान् । '१२२९| गूरी हिंसा - गत्योः' इति दैवादिकोऽनुदात्तेत् । तस्य गतौ वर्तमानस्य रूपम् । रावणिरिन्द्रजित् विहाय अर्थाद्युद्धं विहाय तस्मादाकाशात्पितुरन्तिकमानं हे गतः । ' १९३३ । अहि गतौ ।' '२२८८। तस्मान्नु द्विहलः | ७|४|७१।' इति नुट् ॥ ११२० - आचचक्षे च वृत्तान्तं, प्रजहर्ष च रावणः ॥ गाढं चौपजुगूहनं, शिरस्यु॑पशिशिङ्ख च ॥ ५२ ॥ " आचचक्ष इत्यादि - नागपाशेन राघवौ बद्धाविति वृत्तान्तमाचचक्षे आख्यातवान् रावणः प्रजहर्ष तुष्टवान्, एनं च रावणिं च उपजुगूह इदमाश्लिष्टवान् । अत्र क्रियाफलस्याविवक्षितत्वात् तङ् न भवति । '२३६४। ऊदुपधाया गोहः | ६|४|८९ | ' इत्यूत्वम् । शिरसि उपशिशिङ्ख आघ्रातवान् । 'शिधि आघ्राणे ॥' ११२१-ध्वजानु॑हु॒धुवुस् तुङ्गान, मांसं चेमुर, जगुः पपुः, ॥ कामयांचक्रिरे कान्तास्, ततस् तुष्टा निशाचरः ॥ · ध्वजानित्यादि - ततो निशाचरा अपि श्रुत्वा तुष्टाः सन्तः ध्वजांस्तुङ्गानुदुध्रुवुः उत्क्षिप्तवन्तः, मांसं चेमुः खादितवन्तः, 'चमु छमु अदने ।' जगुर्गीतवन्तः, पपुः मद्यं पीतवन्तः, कान्ताः कामयांचक्रिरे । कमेर्णिङन्तादाम् ॥ ११२२ - दर्शयांचक्रिरे रामं सीतां राज्ञश् च शासनात् ॥ ५ तस्या मिमीलतुर् नेत्रे, लुलुठे पुष्पकोदरे ॥ ५४ ॥ दर्शयामित्यादि - तथाभूतं रामं दृष्ट्वा सीता मम विधेया स्यादित्यभिप्रा यवतो राज्ञो रावणस्य आज्ञया राक्षसाः अशोकवनिकातः पुष्पकमारुह्य सीत रामं दर्शयांचक्रिरे दर्शितवन्तः । 'अभिवादि-दशोरात्मनेपद उपसंख्यानम्' इति चिकल्पेन द्विकर्मकता । तस्याः सीताया नेत्रे निमीलतुः निमीलिते । 'मील निमेषणे ।' पुष्पकोदरे पुष्पकमध्ये । मूर्च्छया लुलुठे लुठिता ॥ ११२३ - प्राणा दध्वंसिरे, गात्रं तस्तम्भे च प्रिये हते, ॥ उच्छश्वास चिराद् दीना, रुरोदा ऽसौ ररास च ॥५५ ।। · Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy