SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ १०४८ सर तटमारूढ समा यस्य तदीदृशंका यस्मिन् । बहवः ३४३ भट्टिकाव्य-तृतीये प्रसन्न-काण्डे लक्षण-रूपै चतुर्थो वर्गः, १०४७-गिरि-पङ्क-चारु-देह कक्कोल-लवण-बद्ध-सुरभि-परिमलम् ॥ बहु-बहलोरु-तरङ्गं परिसरमारूढमुद्धरं लवण-जलम् ॥ २९ ॥ गिरीत्यादि-गिरीणां प्रक्षिप्यमाणानां यः पङ्कः गैरिकादिधातुकर्दमः तेन चारुदेहम् । ककोललवङ्गाभ्यां बद्धः सुरभिः परिमलो गन्धो यस्मिन् । बहवः प्रभूता बहलाः स्थूला उरवः उच्चास्तरङ्गा यस्य तदीदृशं लवणजलम् । उद्धरम् उद्धृतं कर्तृभूतम् । परिसरं तटमारूढं सेतुना निवारितगतित्वात् ॥ १०४८-लोलं कूलाऽभिगमे खे तुङ्गाऽमल-निबद्ध-पुरु-परिणाहम् ॥ सुर-गङ्गा-भरण-सहं गिरि-बन्ध-वरेण लवण-सलिलं रुद्धम्. ॥३०॥ लोलमित्यादि-कूलाभिगमे तटगमने लोलं चञ्चलम् । खे आकाशे तुझं च तदमलं चेति तुङ्गामलम् । निबद्धः संयुक्तः पुरुर्महान् परिणाहो यस्य । तुङ्गामलं च तबिरुद्धपुरुपरिणाहं चेति । वियति आरोहपरिणाहाभ्यां युक्तमित्यर्थः । सुरगङ्गायाः मदाकिन्याः यद्भरणं पूरणं तत्र सहं शक्कं तादृशं लवणजलं गिरिबन्धवरेण सेतुना रुद्धम् ॥ कुलकम्-३१-४३।१०४९-आरूढं च सुवेलं तरु-मालाऽऽबन्ध-हारि-गिरि-वर-जालम् ॥ रावण-चित्त-भयङ्कर मापिङ्गल-लोल-केसरं राम-बलम् ॥ ३१ ॥ आरूढमित्यादि-रामबलं तटे स्थित्वा आरूढं च सुचेलं पर्वतम् । धकारस्य प्राकृते स्वरशेषता न भवति । पदमध्यान्तयोरवर्तमानत्वात् । तरुमालाया य आबन्धः तेन हारि मनस्तुष्टिकर तादृशं गिरिवराणां पर्यन्तगिरीणां जालं यस्य सुवेलस्य । रावणचित्तस्य भयङ्करं रामबलम् । आपिङ्गलानि लोलानि केसराणि यस्य तदिति ॥ १०५०-लङ्काऽऽलय-तुमुलाऽऽरव सुभर-गभीरोरु-कुञ्ज-कन्दर-विवरम् ।। वीणा-रव-रस-सङ्गम सुरगण-संकुल-महा-तमाल-च्छायम् ॥ ३२ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy