SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३४० भट्टिकाव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे चतुर्थी वर्गः, बद्ध-विहङ्गम-मालं हिम- गिरिमिव मत्त - कुरर-रव-संबद्धम् ॥ २३ ॥ बह्नित्यादि - बहवो धवल्म वारिवाहा यत्राम्बरे । विमलायस: अयसो विकारः गुरुरलघुर्महान् यो ऽसि: खङ्गः तस्य यो देहः तस्य छायेव छाया यस्य । बद्धा विरचिता विहङ्गानां माला पङ्गिर्यत्र । मत्तानां कुरराणां रवेण संबद्धं युक्तम् । अतो हिमगिरिमिवाम्बरमारूढा इति ॥ १०४२ - चारु - कलहंस - संकुल मं चण्ड- संचार-सारसाऽऽबद्धन्वम् ॥ स- कुसुम - कण- गन्ध-वहं समयाऽऽगम-वारि-सङ्ग-विमलाऽऽयामम्. २४ चारुकलहंसेत्यादि - चारुभिः कलहंसेः संकुलं व्याप्तम् | अचण्डसंचारैः शनैः संचरद्भिः सारसैराबद्धो वो यस्मिन् । सकुसुमकणः सपुष्परेणुर्गन्धवहो वायुर्यत्रेति । वहतीति वहः कर्तर्यच् । गन्धस्य वह इति सः । समयस्य प्रावृट्कालस्य य आगमः तेन यो वारिसङ्गः तेन प्रक्षालितत्वात् विमला आयामा यत्र तदुम्बरमारूढा इति ॥ १०४३ - सहसा ते तरु - हरिणा गिरि-सुभरा लवण-सलिल - बन्धाऽऽरम्भे ॥ तीर - गिरिमारूढा रामाऽऽगम-रुद्ध-स-भय-रिपु- संचारम् ॥२५॥ एतानि चत्वारि संकीर्णानि ॥ I सहसेत्यादि - ते तरुहरिणाः शाखामृगाः गिरिभिः सुभराः सन्तः लवणसलिलबन्धारम्भे समुद्र बन्धनारम्भे सहसा तत्क्षणं तीरगिरिं तटस्थितं पर्वतमारूढाः । अत्र संस्कृतपक्षे संहिताया अविवक्षितत्वात् तीरगिरिमारूढा इति नोक्तम् । अन्ये भारूढा तीरगिरिमिति विपर्ययमस्य पठन्ति । यदयुक्तम् । संस्कृतपक्षे भस्भावाद्यत्वं नास्ति । अतो विसर्जनीयस्य सकार एव स्यात् । रामस्य य भागमस्तेन रुद्धः सभयानां रिपूणां शत्रूणां संचारो यत्र तीरगिरौ । राम आगत इति तत्र भयात् संचारं त्यक्तवन्त इति ॥ एतानि चत्वारि संकीर्णानि ॥ १०४४ - ततः प्रणीताः कपि- यूथ - मुख्यैर् न्यस्ताः कृशानोस् तनयेन सम्यक् ॥ अ- कम्प्र बनाऽग्र नितम्ब - भागा महार्णवं भूमि भृतो ऽवगाढाः ॥ २६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com -
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy