SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३३६ भट्टिकाव्ये-तृतीये प्रसन-काण्डे लक्षण-रूपे चतुर्यों वर्गः, तुङ्गा इत्यादि-गिरिवरदेहाः कुलपर्वतकायाः तुझाः प्रांशवः, अगमं सलिलं भगम्यम् । १२३४॥ ग्रह-३३१५८।' इत्यादिना । समीरणो रसहारी अपा. मुच्छोषकः, अहिम उष्णः रवेः किरणगणः । एतत्सर्व तव माया परमा महती संसारस्य कारणम् । सर्वथा त्वं विष्णुः त्वत्कृतेषु को रोष इति ॥ १०२८-आयास-संभवारुण! संहर संहार-हिम-हर-सम-च्छायम् ॥ बाणं, वारि-समूह संगच्छ पुराण-चारु-देहाऽऽवासम्. ॥ १० ॥ आयासेत्यादि-यमासंसारकारणं यदगम्यं सलिलं कृतं, तस्सावं हे मायाससंभवारुण रोषसंभवेन रतीभूत ! संहारे प्रलये हिमहरा आदित्यास्तैः समा छाया यस्य चाणस तं संहर उपशमय । वारिसमूह संगच्छ अङ्गीकुरु । सकर्मकत्वात् '२६९९। समो गमि-१३।२९।' इत्यात्मनेपदं न भवति । पुराणः शाश्वतः दर्शनीयो यो देहः तस्य आवासमवस्थानम् ॥ १०२९-अ-सुलभ-हरि-संचार जल-मूलं बहल-पङ्क-रुद्धाऽऽयामम् ॥ भण किं जल-परिहीणं सु-गमं तिमि-कम्बु-वारि-वारण-भीमम्. ॥११॥ असुलमेत्यादि-अन्यञ्च यदेतजलमूलं जलस्यावस्थानं आग्नेयशरशोषितत्वाजलपरिहीणं सत्, तत् किं सुखेन गम्यत इति भण ब्रूहि । यतो बहल: सान्द्रो यः पङ्कस्तेन रुद्ध आयामो दैर्घ्यं यत्र । तिमयो मत्स्याः कम्बवः शङ्खाः वारिवारणाः जलहस्तिनः तैीमम् । एवं च सति असुलभो दुर्लभः हरिसंचारो वानरपर्यटनं यत्रेति ॥ गमनोपायमाह१०३०-गन्तुं लङ्का-तीरं बद्ध-महासलिल-संचरेण स-हेलम् ॥ तरु-हरिणा गिरि-जालं वहन्तु गिरि-भार-संसहा गुरु-देहम्. ॥ १२॥ गन्तुमित्यादि-संचरन्त्यनेनेति संचरः। '३२९० । गोचर-संचर ।।३. ११९॥' इति टच् । बद्धो घटितो महासलिले यः संचरः तेन सेतुना सहेलम् । एकप्रवृत्त्या लङ्कातीरं लकोपलक्षितं तटं गन्तुं तरहरिणा वानरा गिरिभारस्य संसहाः क्षमाः । संसहन्ते इत्यच् । गिरिजालं गिरिसमूहं वहन्तु । गुरुदेहः शरीरं यस्य गिरिजालस्य । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy