SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३३० भट्टिकाव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे तृतीयो वर्गः, 1 मन्यस्व अवगच्छ । लोटि रूपम् । यदि जेताप्यहं परेण जीये शिलातरणादीन्यपि भविष्यन्ति ॥ १००९ - अ - निर्वृतं भूतिषु गूढ-वैरं सत्कार - काले ऽपि कृता ऽभ्यसूयम् ॥ विभिन्न कर्माऽऽशय-वाक् कुले नो मा ज्ञातिचेलं, भुवि कस्यचिद् भूत् ॥ ७८ ॥ अनिर्वृतमित्यादि - भूतिषु ज्ञातिसंबन्धिनीषु अनिर्वृतमसुखिनम् । गूढवैरं काले हनिष्यामीति संभृतापकाराशयम् । सत्कारकाले ऽपि पूजाकाले ऽपि कृतामर्षम् विभिन्नाः कर्माशयवाचो यस्य तद्विभिन्नकर्माशयवाक् । आशयोSम्यो वाक्कर्मणी चान्ये यस्येति । ईदृशं ज्ञातिचेलं गर्हितज्ञातिरस्माकं कुले मा भूत् । कस्यचिदन्यस्य वा मा भूत् । चेलशब्दो गर्हिते वर्तते ॥ १०१० - इच्छन्त्यभीक्ष्णं क्षयमात्मनो ऽपि न ज्ञातयस् तुल्य- कुलस्य लक्ष्मीम् ॥ नमन्ति शत्रून्, न च बन्धु- वृद्धिं संतप्यमानैर् हृदयैः सहन्ते ॥ ७९ ॥ ● इच्छन्तीत्यादि - ज्ञातयः आत्मनः सुष्ठु क्षयं विनाशमिच्छन्ति, न पुनस्तुल्यकुलस्य एकहेतुगोत्रस्य लक्ष्मीं श्रियम् । तथा शत्रु कामं नमन्ति न पुनर्बन्धुवृद्धिं बन्धुसन्ततिं सहन्ते । संतप्यमानैर्हृदयैः ईर्ष्यया दह्यमानैः ॥ किं मया कृतं येनैवमुच्यत इति चेदाह - १०११-त्वयाऽद्य लङ्काऽभिभवे ऽति - हर्षाद् दुष्टोऽति- मात्रं विवृतो ऽन्तरात्मा ॥ धिक् त्वां मृषा ते मयि दुस्थ - बुद्धिर्' " वदन्निदं तस्य ददौ स पाणिम् ॥ ८० ॥ त्वयेत्यादि — लङ्कापरिभवे लङ्कोपरोधे भतिहर्षात् हर्षेण दुष्टान्तरात्मा अतिमात्रं सुष्टुं त्वयाद्य विवृतः प्रकाशितः । मयि दुस्बुद्धिः अस्मद्विषये दुस्योsभियुक्तो ऽयमिति बुद्धिः ते मृषा मिथ्या । अतस्त्वां धिगिति वदन् स दशाननः तस्य विभीषणस्य सिंहासनोपाश्रिताबाहोः पाणि पादप्रहारं शिरसि ददौ || १०१२ - ततः स कोपं क्षमया निगृह्णन्, धैर्येण मन्युं, विनयेन गर्वम्, ॥ मोहं धियौत्साह-वशादशक्तिं, समं चतुर्भिः सचिवैरुदस्थात्. ॥ ८१ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com 7 :
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy