SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३२६ भट्टिकाव्ये - तृतीये प्रसन्न -काण्डे लक्षण-रूपे तृतीयो वर्गः, अनर्थ- मूलं भुवनाऽवमानी मन्ये न मानं पिशिताशि - नाथ ! ॥ ६४ ॥ औष्ण्यमित्यादि - हे पिशिताशिनाथ ! भानुर्मध्यगतो ऽपि मध्याह्ने ऽपि औष्ण्यमुष्णतां त्यजेत् । संभावने लिङ् । अथवा हिमांशुर्निशायामपि शैत्यं त्यजेत् । भुवनावमानी पुनर्भुवनमवमन्तुं शीलमस्येति । नास्ति मत्सम इति स भवादृशो मानं न त्यजेत् । अनर्थमूलं अनर्थस्य कारणम् । एवं मन्ये जानामि ॥ ९९६ - तथा ऽपि वक्तुं प्रसभं यतन्ते यन् मद्-विधाः सिद्धिमभीप्सवस् त्वाम् ॥ विलोम - चेष्टं विहिताऽवहासाः परैर् हि तत् स्नेह-मयैस् तमोभिः ॥ ६५ ॥ तथापीत्यादि - तथापि एवमपि सति मद्विधाः सिद्धिं कार्यनिष्पत्तिमभीप्सवः आप्तुमेषणशीलाः । यत्त्वां विलोमचेष्टं प्रतिकूलचेष्टितम् । प्रसभमाहत्य वक्तुं यतन्ते । परैः दूतजनैः शत्रुजनैर्वा विहितावहासा एवंविधा अप्युपदिशन्तीति । वाशब्दः पादपूरणे । तत्स्नेहमयैः स्नेहस्वभावैस्तमोभिरज्ञानैः । स्नेहतम सावृता ब्रुवन्तीत्यर्थः ॥ ९९७ - क्रूराः क्रियाः, ग्राम्य-सुखेषु सङ्गः, पुण्यस्य यः संक्षय-हेतुरुक्तः, ॥ निषेवितो ऽसौ भवता ऽतिमात्रं फलत्र्त्य - वल्गु ध्रुवमैव राजन् ! ॥ ६६ ॥ क्रूरा इत्यादि - क्रूराः क्रियाः परहिंसादयः, ग्राम्यसुखेषु परदारोपभोगादिषु सङ्गः प्रसक्तिः, यः पुण्यस्यार्जितस्य संक्षयहेतुरुक्तः विद्यावृद्धैः । असौ भवतातिमात्रं सुष्ठु निषेवितः सन् हे राजन्निदानीं फलति फलं ददाति । भवल्गु असारम् । ध्रुवमविनाशम् ॥ तस्माद्विलोमचेष्टस्य भवतो हितोपदेशे मम न किंचित् प्रयोजनं तावत्तु स्यात् त्वदर्थे मत्प्राणत्याग इति दर्शयन्नाह - ९९८ - दत्तं न किं के विषया नं भुक्ताः, स्थितोऽस्मि वा कं परिभूय नौचैः ॥ इत्थं कृताऽर्थस्य मम ध्रुवं स्यान् मृत्युस्त्वदर्थे यदि, किं न लब्धम् ॥ ६७ ॥ दत्तमित्यादि - तव प्रसादादर्थिभ्यः किं न दत्तम्, के विषयान भुक्ताः, सर्व एवानुभूताः । कं वा परिभूय तिरस्कृत्य उच्चैर्महति पदे न स्थितोऽस्मि । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy