SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३१८ भटि-काव्ये-तृतीये प्रसन्न काण्डै लक्षण-रूपे तृतीयो वर्गः, अथ प्रतापवतो मम कथं कार्य विनश्यति प्रतापादेव शत्रवो नश्यन्तीति चेदाह.९६९-प्राकार-मात्राऽऽवरणः प्रभावः . खराऽऽदिभिर् यो निहतैस् तवाऽभूत् , ॥ लङ्काप्रदाहाऽक्ष-वध-दु-भङ्गैः क्लाम्यत्यसावप्यधुना ऽतिमात्रम्. ॥ ३८॥ प्राकारेत्यादि-तब त्रैलोक्यप्रमाथी प्रताप आसीत् । पुनः खरादिमि. निहतैः प्राकारमात्रावरणो जातः । लङ्कायामेव समर्थत्वात् । असावप्यधुना लङ्कादाहेन, अक्षवधेन, दुमभङ्गेन अशोकवनिकामङ्गेन च अतिमात्रमत्यर्थ काम्यति ग्लानिमुपगच्छति ॥ अतो रामेण सह युद्धं न घटते तदेव दर्शयवाह९७०-पड़र्ग-वश्यः परिमूढ-बन्धु रुच्छिन्न-मित्रो विगुणैरुपेतः॥ मा पाद-युद्धं द्वि-देन कारि नम क्षितीन्द्रं प्रणतोपभोग्यम्. ॥ ३९ ॥ षड्वर्गेत्यादि-वशंगतो वश्यः कामादेवश्यः । परिमूढबन्धुः मूर्खामात्यादिपरिवारः । उच्छिन्नमित्रः वर्गस्यासंभवात् । अरिगणैरुपेतः । तद्विपरितो रामः । अतो द्विरदेन पादयुद्धमिव तेन ज्यायसा मा विग्रहं कार्षीः । अपितु क्षितीन्द्रं रामं नम । प्रणतोपभोग्यम् । अनेन हीनसंधिमाह । तथा चोकम्'प्रवृत्तं मत्रिणाक्रान्तो राजा बलवता बलः ॥ संधिनोपनमेत्तूर्णं दण्डकोशास्मभूमिमिः ॥' इति ॥ युवयोः संधानकारणमस्येवेति दर्शयबाह९७१-रामो ऽपि दाराऽऽहरणेन तप्तो, वयं हतैर् बन्धुभिरात्म-तुल्यैः ॥ तप्तस्य तप्तेन यथा ऽऽयसो नः संधिः परेणा ऽस्तु, विमुश्च सीताम्. ॥४०॥ राम इत्यादि-यया ततेनायसा तप्तस्यायसः संधिर्घटते तद्वदसकं: तसानां तन रामेण संधिरस्तु । अतो मुख सीतां संधिनिमित्तम् ॥ __यदि च तेन तसेनापि सता ज्यायसा न संधानं तदा सर्वे वयं न जीवामा तव तेजसो विनाशकत्वादिति दर्शयबाह९७२-संधुक्षितं मण्डल-चण्ड-वातै रमर्ष-तीक्ष्णं क्षिति-पाल-तेजः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy