________________
२९४ भट्टि-काव्ये तृतीये प्रेसन-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
वृत्तावित्यादि-सुरतकाले श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानां इन्द्रियाणां शब्द. स्पर्शरूपरसगन्धग्रहणात् सर्वेन्द्रियसंभवं सुखम् । अथवा सर्वमिन्द्रियं यत्रेति सर्वेन्द्रियः कायः। तत्संभवं सुखं सर्वेन्द्रियसंभवम् सुखं तथाह्यालिङ्गनचुम्बनदर्शनच्छेदनेषु पुरुषोपसृष्टेषु तत्र प्रयुज्यमाने काये सुखमुत्पद्यते । तेन सुखेन हृदये चेतसि प्रकाशं स्पष्टं वृत्तौ कृतायां चक्षुर्वञ्चितमिवात्मानं मन्यमानम् । '२९९३। आत्ममाने खश्च ।३।२।०३।' इति णिनिः । संकोचमेव निमीलनमेवा. स्थात् अनुष्टितवत् असहमानमिति सर्वेन्द्रियसंभवस्य सुखस्य हृदये वृत्तिं सोटुमपारयदित्यर्थः । अशक्तवत् यथा कश्चिदसमर्थो ऽन्यसंभवां संपदं सोढुमसहमानः संकोचमनुतिष्ठति ॥ ...८९२-पीने भटस्योरसि वीक्ष्य भुग्नांस्
तनु-त्वचः पाणि-रुहान सु-मध्या ॥ इच्छा-विभङ्गाऽऽकुल-मानसत्वाद्
भर्ने नखेभ्यश् च चिरं जुजूरे. ॥८॥ पीन इत्यादि., काचित् सुमध्या सुमध्यमा नखैः व्यापद्यमाना अहमध्यस्थ क्षतं विधास्यामीति भटस्योरसि पीने कठिने भुग्नान् कुञ्चितान् । भन्नानिति पाठा. न्तरम् । पाणिरुहानखान् वीक्ष्य भत्रे नखेभ्यश्च चिरं जुजूरे कुध्यति स । कथ. मस्य वक्षः कठिनं मम च नखास्तनुत्वचो न कठिना इति । १२३०। पूरी ।१२३३॥ जूरी हिंसावयोहान्योः' इत्यस्यात्मनेपदिनो रूपम् । '५७५। क्रुध-द्रुह-१॥४॥३७॥" इत्यादिना सम्प्रदानसंज्ञा। कलाजुजूर इत्याह-इच्छाविभङ्गाकुलमानसत्वात चिकीर्षिताकरणेनाकुलचित्तत्वात् ॥ ८९३-स्रस्ताऽङ्ग-चेष्टो विनिमीलिताऽक्षः ..
स्वेदाऽम्बु-रोमोद्गम-गम्य-जीवः ॥ अ-शेष-नष्ट-प्रतिभा-पटुत्वो
गाढोपगूढो दयितैर् जनो ऽभूत्.॥९॥ । स्रस्ताङ्गचेष्ट इत्यादि-दयितैर्गाढोपगूढः आलिङ्गितः सन् स्त्रीजनः अशे. पनष्टप्रतिभापटुत्वो ऽभूत् । अशेषं नष्टं प्रतिभाया बुद्धेः पटुत्वं यस्येति । एवं च कृत्वा सस्ताङ्गचेष्टो ऽपगतकायव्यापारः विनिमीलिताक्षः सुखानुभवानिमीलितलोचनः । मृतस्तीत्याह-वेदाम्बुरोमोद्गमगम्यजीवः खेदाम्बुरोमोद्माभ्यां लिङ्गाभ्यां गम्यमानसंज्ञः॥ ८९४-तमः, प्रसुतं मरणं, सुखं नु,
मूर्छा नु, माया नु मनोभवस्य, ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com