SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २७८ भट्टिकाव्ये - तृतीये प्रसन्न -काण्डे लक्षण रूपे प्रथमो वर्गः, निरत्वं तस्य क्रियाफलस्य विभावनात् प्रकाशनात् । यथोक्तम्- 'क्रियायाः प्रतिषेधेन तत्फलस्य विभावनात् ॥ ज्ञेया विभावनैवासौ सान्वये कथ्यते यथा ॥' इति ॥ समासोक्तिः ८५१ - स च विह्वल - सत्त्व-संकुलः परिशुष्यन्नभवन् महा-हृदः ॥ परितः परिताप- मूर्च्छितः, पतितं चा ऽम्बु निर॒भ्रमप्सितम् ॥ ४२ ॥ स चेत्यादि - स च रामो महाहूदः महाह्रदसमः सीताविरहात् चिह्नलेनाकुलेन सत्त्वेन चेतसा संकुलो व्याप्तः । परिशुष्यन् शोषमुपगच्छन् परितः समन्तात् परितापमूर्च्छितः शोकसंतापेन मूर्च्छान्वितो ऽभवत् भूतः । अनन्तरं चाम्बु जलं सीतावार्ताश्रवणमीप्सितं अभिप्रेतं निरभ्र माकस्मिकं पतितमित्येकोऽर्थः । महाहृदः परिशुष्यन् विह्वलैः सवैर्मत्स्यादिभिः संकुलो व्याप्तः । परितापमूच्छितः अर्कतापान्वितो ऽभवत् । अम्बु च निरभ्रं विना मेघेन पतितमिति द्वितीयः । समासोक्तिः । यथोक्तम्- 'यत्रोक्तेर्गम्यतेऽन्योऽर्थस्तत्समान विशेषणः ॥ सा समासोक्तिरुदिता संक्षिप्तार्थतया यथा ॥' इति । एवं च कृत्वा भयं श्लेषाद्भिद्यते । श्लेषे हि द्वयोरपि श्रूयमाणत्वात् ॥ अतिशयोक्तिः ८५२ - अथ लक्ष्मण-तुल्य - रूप-वेशं गमनाऽऽदेश-विनिर्गताऽग्र-हस्तम् ॥ कपयो ऽनुययुः समेत्य रामं नत - सुग्रीव - गृहीत - साऽऽदराज्ञम् ॥ ४३ ॥ अथेत्यादि - अथ वार्ताश्रवणानन्तरं कपयः समेत्य मिलित्वा राममनुययुः अनुगतवन्तः । लक्ष्मणेन तुल्यं रूपं वेशश्च यस्य रामस्य गमनाय प्रयाणाय आ देशः तदर्थं विनिर्गतौ भग्रहस्तौ यस्य । नतेन प्रणतेन सुग्रीवेण गृहीता प्रतिष्ठिता सादराज्ञा यस्य तं रामम् । अतिशयोक्तिरिति अतिशयाभिधानात् । भन्न सुष्ठुपि नामासौ लक्ष्मणे च तुल्यरूपवेशः स्यात् न तु प्रत्यक्षप्रमाणपरिच्छे इति लोकातिक्रान्तवचनमेतद्वचनम् । अवश्यं च कश्चिद्विशेषोऽस्ति । यथोक्तम्- 'निमित्ततो यत्र वचो लोकातिक्रान्तगोचरम् ॥ मन्यन्ते ऽतिशयोकिं तामलंकारतया यथा ॥' इति ॥ 1 कुलकम् ४३-४९ यथा-संख्यम्— ८५३ - कपि-पृष्ठ- गतौ ततो नरेन्द्रौ . कपयश् च ज्वलिताऽग्नि- पिङ्गलाक्षाः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy