SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः - २६५ अ-युग्म-पाद-यमकम् - ८२०-न वानरैः पराक्रान्तां महद्भिर् भीमविक्रमैः ॥ न वा नरैः पराक्रान्तां ददाह नगरीं कपिः ॥ १० ॥ नेत्यादि-वानरैरन्यैर्महद्भिर्महाप्राणैर्भीमविक्रमैः असह्यशौयैः शक्रादिभिः न पराक्रान्तां नावष्टधां नगरीं लङ्कां नरैर्मनुष्येन च पराक्रान्तां विगृहीतां कपिईनूमान् ददाह दग्धवान् । अयुक्पादयमकमिति प्रथमतृतीययोर्यमितत्वात् ॥ पादाद्यन्त यमकम् - ८२१ - तं द्रुतं वह्नि- समागतं गतं महीमहीन - द्युति-रोचितं चितम् ॥ समं समन्तादप- गोपुरं पुरं परैः परैरप्यनिराकृतं कृतम् ॥ ११ ॥ द्रुतमित्यादि - यत्पुरं चितं सौवर्णगृहसंहत्या व्याप्तं तद्वह्निसमागतं अग्निसंयुक्तं द्रुतं विलीनम् । द्रुतं प्रवाहेण प्रवृत्तं द्रुतं शीघ्रं अहीनया उत्कृष्टया द्युत्या तेजसा रोदितं भासितं महीं गतं प्राप्तं अपगोपुरं अपगतपुरद्वारं अत एव समन्तात्सर्वतः समं तुल्यं कृतम् । परैः शत्रुभिः परैरपि उत्कृष्टैरपि शक्रादिभि - रनिराकृतं अनभिभूतं सत् । पादाद्यन्तयमकमिति पादस्यादावन्ते च यमितत्वात् ॥ मिथुन-यमकम् - ८२२ - नश्यन्ति ददर्श वृन्दानि कपीन्द्रः ॥ हारण्य - बलानां हारीण्य - बलानाम् ॥ १२ ॥ नश्यन्तीत्यादि - अबलानां स्त्रीणां अबलानां अविद्यमानरक्षकाणां वृन्दानि समूहान् । हारीणि हारवन्ति, हारीणि भवश्यं हरन्ति । आवश्यके णिनिः । चेतस इत्यर्थात् । नश्यन्ति पलायमानानि सन्ति कपीन्द्रो ददर्श । मिथुनयमकमिति पादद्वयस्य चक्रवाकमिथुनवदवस्थितत्वात् ॥ वृन्त-यमकम् - ८२३ - नारीणामपनुनुदुर् न देह-खेदान् ना ssरीणाऽमल - सलिला हिरण्यवाप्यः ॥ १–वंशस्थं वृत्तम् । ‘ज-तौ तु वंशस्थमुदीरितं ज-रौ' इति तलक्षणात् । २ – इदं तनु· मध्या वृत्तम् । तदुक्तम्—'तू यौ स्तम् तनुमध्या' इति । ३ - प्रहर्षिणी वृत्तम् । 'मू-नौ जूरौ गस् त्रिदश यतिः प्रहर्षिणीयम्' इति तलक्षणात् । भ० का० २३ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy