SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २६२ भट्टिकाव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः, वनिता जनेन वियता वियता त्रि- पुराऽऽपदं नगर्मिता गमिता ॥ ३ ॥ निखिलेत्यादि - ज्वलनेनाग्निना प्रभवता वृद्धिं गच्छता भवता समुत्पद्य • मानेन सहसा तत्क्षणं पूः पुरी निखिला सर्वा न सहसा अभवत् सानन्दा न जाता । हासस्यानन्दकार्यत्वात् एवमुक्तम् । '३२३९ | स्वनहसोर्वा | ३ | ३।६२।' इत्यपि रूपम् । वनिताजनेन वियता नभसा वियता भयादितस्ततो गच्छता त्रिपुरापदं गमिता प्रापिता पूः त्रिपुरेष्वपि दह्यमानेषु भयादितस्ततो जनो गतः नगं त्रिकूट पर्वतमिता सती । पादान्तयमकमिति पादान्तेषु यमितत्वात् ॥ पादाऽऽदि-यमकम्— ८१४ - सरसां सरसां परिमुच्य तनुं पततां पततां ककुभो बहुशः ॥ स- कलैः सकलैः परितः करुणैरुदितै रुदितैरिव खं निचितम् ॥ ४ ॥ सरसामित्यादि - सरसाम् तोयाशयानां तनुं शरीरम् । सरसां सादी परिमुच्य त्रासात्यक्त्वा पततां पक्षिणां बहुशः बहून् वारान् ककुभो दिशः पततां गच्छतां उदितैः शब्दितैः । वदेर्यजादित्वात्सम्प्रसारणम् । सकलैः समस्तैः सकलैः माधुर्यवद्भिः । कलशब्दस्य गुणमात्रवृत्तित्वान्न तद्वति वर्तते । ततश्च सहशब्देन समासो भवति । करुणैः कारुण्यजनकै रुदितैरिव क्रन्दितैरिव परितः समन्तात् खमाकाशं निचितं व्याप्तम् । पादादियमकमिति पादानामादौ यमितत्वात् ॥ पाद-मध्य- यमकम् - ८१५ - न च कांचन काञ्चन - सद्म-चितिं न कपिः शिखिना शिखिना समयौत् ॥ न च न द्रवता द्रवता परितो हिम-हान - कृता न कृता क्व च न. ॥ ५ ॥ न चेत्यादि - काञ्चनसद्मचितिं सौवर्णगृहसंहति कांचन कांचिदपि शिखिना अग्निना शिखिना ज्वालावता न कपिर्न च समयौत् न च न मिश्रितवान् । अपि तु संश्लेषं नीतवान् । यौतेर्लुङि '२४४३ । उतो वृद्धिर्बुकि हलि | ७|३|८९ | इति वृद्धिः । क्व च क्वचिन्नाम हिमहानकृता हिमहानस्य हिमापचयस्य कर्त्रा शिखिना । जहातेर्भावे ल्युट् । न च न द्रवता न च न विसर्पता अपि तु १ - तोटक वृत्तमिदं लोकद्वये नवमलोके च । 'इह तोटकमम्बुधि-सै प्रथितम्' इति वृत्तरत्नाकरे तलक्षणात् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy