SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २३४ भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण- रूपे चतुर्थी वर्गः, तेषामित्यादि - तेषां रक्षसां निहन्यमानानां संघुष्टैः शब्दैः कर्णभेदिभिः बाधिर्यकरैः । भभ्यमितत्रासं अभिगतन्त्रासं जगदभूत् । आस्वान्ताः अशेषा दिशो यस्मिन् जगति । संघुष्टाभ्यमितस्वान्ताः '३०६९ । रुष्यमत्वर - | ७|२|२८|' इति विकल्पितेः ॥ ६९५ - भय - संहृष्ट- रोमाणस् ततस् ते ऽपचित-द्विषः ॥ क्षणेन क्षीण - विक्रान्ताः कपिना ऽनेषत क्षयम् ॥२२॥ इतीट्प्रतिषेधाधिकारः ॥ भयेत्यादि - ततस्ते राक्षसाः कपिना क्षणेन क्षयं विनाशमनेषत नीताः । कर्मणि लुङ्। भयसंहृष्टरोमाणः भयोद्गतरोमाञ्चाः । ' ३०७०। हृषेर्लोमसु ॥७।२।२९|' इति विभाषिते । अपचितद्विषः अपचितानां पूजितानां ऋषीणां शत्रवः । '३०७१ । अपचितश्च |७|२|३०|' इति निपातः । क्षीणविक्रान्ताः क्षीणं विक्रान्तं पराक्रमो येषाम् | '३०१५ | क्षियो दीर्घात् | ८|२| ४६ | ' इति निष्ठात कारस्य नः ॥ इतीद-प्रतिषेधाधिकारः । इतः प्रभृतीटमधिकृत्याह ६९६ - हत्वा रक्षांसि लवितुम॑क्रमीन् मारुतिः पुनः ॥ अशोकवनिकामैव निगृहीताऽरि - शासनः ॥ २३ ॥ 8 हत्वेत्यादि - रक्षांसि हत्वा मारुतिरशोकवनिकामेव पुनर्लवितुं छेत्तुम् । आर्धधातुकस्येट् । अक्रमीत् गतवान् । '२३२३ । खु-क्रमोरनात्मनेपदनिमित्ते |७|२| ३६ |' इतीट् । निगृहीतारिशासनः ध्वस्तारिव्यवस्थः । '२५६२ । ग्रहोऽलिटि दीर्घः | ७|२|३७|' इतीटो दीर्घत्वम् ॥ ६९७ - आवरीतुमिवा ssकाशं वरितुं वीनिर्वोत्थितम् ॥ वनं प्रभञ्जन-सुतो ना sदयिष्ट विनाशयन् ॥ २४ ॥ आवरीतुमित्यादि - प्रभञ्जनसुतो हनूमान् । वनमशोकवनिकाख्यं विनाशयन् नादयिष्ट दयां न कृतवान् । लुङि रूपम् । आकाशमावरीतुमिव अवष्ट - धुमिवोत्थितं वनम् । वीनू पक्षिणो वरितुं प्रार्थयितुमिवोत्थितं ' आगच्छत' नान्यत्र यात, 'इहैव फिलवृद्धिं प्राप्स्यथ' इति । भवरीतुं वरितुमिति २३९१ | वृतो वा | ७|२|३८|' इति विकल्पेनेटो दीर्घत्वम् ॥ ६९८ - वरिषीष्ट शिवं क्षिप्यन् मैथिल्याः कल्प- शाखिनः, ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy