________________
२२४ भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः,
दर्शनीयेत्यादि - तत्र दिव्यास्वपि स्त्रीषु मध्ये दर्शनीयतमाः स्त्रियः पश्यन् । '६३८ । यतश्च निर्धारणम् | २|३|४११' इति सप्तमी । दर्शनीयतमत्वेन गुणेन पृथक्करणात् । भुजङ्गेभ्यो ऽपि व्यालतमान् हिंखान् राक्षसान् व्यस्यन् अपक्षिपन् । '६३९ । पञ्चमी विभक्ते |२| ३ | ४२|' इति पञ्चमी । भुजङ्गेभ्यो राक्षसानां विभागात् प्राप्तो देव्याः पादमूलमित्यर्थात् ॥
किमवस्थो राम इत्याह
६५९ - भवत्यामुत्सुको रामः प्रसितः संगमेन ते ॥
मघासु कृत - निर्वापः पितृभ्यो मां व्यसर्जयत् ॥ ११७ ॥
भवत्यामित्यादि - भवत्यां त्वयि उत्सुकः उन्मनाः रामः । तव संगमेन प्रसितः प्रसक्तः । ' ६४१ । प्रसितोत्सुकाभ्यां तृतीया च |२| ३ | ४४ |' इति चकाहात्सप्तमी । मघाभिर्युक्तः कालः तत्समीपे चन्द्रमसो वर्तमानत्वात् । '१२०४ | नक्षत्रेण युक्तः कालः |४| २|३|' इत्यण् | तस्य '१२०५ । लुबविशेषे | ४|२|४| ' इति लुप् । तस्मिन् काले पितृभ्यः कृतनिर्वापः दत्तदानः मां व्यसर्जयत् । '६४२। नक्षत्रे च लुपि |२| ३ | ४५ |' इति सप्तमी । तत्रापि ' १२९४ । लुपि युक्तः वयक्तिवचने | १|२| ५१।' इति स्त्रीलिङ्ग - बहुवचने भवतः । व्यसर्जयदिति विशब्दात् '५३२॥ प्रातिपदिक - | २|३|४६ |' इत्यादिना प्रातिपदिकमात्रे प्रथमा ॥ संदेहनिवृत्यर्थं चाभिज्ञानं दर्शयन्नाह -
६६० - अयं मैथिल्य॑भिज्ञानं काकुत्स्थस्या ऽङ्गुलीयकः ॥ भवत्याः स्मरता ऽत्यर्थमर्पितः सादरं मम ॥ ११८ ॥
अयमित्यादि —– काकुत्स्थस्यायमङ्गुलीयकोऽभिज्ञानं चिह्नमयमभिज्ञानमिति लिङ्गाधिके प्रातिपदिकमात्रे प्रथमा । मैथिलीति संबोधनादिके '५३३। संबोधने 'च | २|३|४७|' इति । सामन्त्रितं संबुद्धिश्नात्रैव द्रष्टव्यम् । काकुत्स्थस्येति '६०६। षष्टी शेषे | २|३|५० |' इति षष्ठी । भवत्या अत्यर्थं स्मरता सादरमर्पितम् । '६१३॥ अधीगर्थ - | २|३|५२ |' इत्यादिना स्मरणार्थे कर्मणः शेषत्वविवक्षायां षष्ठी ॥ ६६.१ - रामस्य दयमानो ऽसाव॑ध्येति तव लक्ष्मणः, ॥
उपास्कृ॒षातां राजेन्द्रार्वागमस्यैह, मात्रसीः ॥ ११९ ॥
1
रामस्येत्यादि - असौ लक्ष्मणो रामस्य दयमानो रामं रक्षन् शुचं मा कार्षीरिति । दयतेः कर्मणि षष्ठी । तवाध्येति त्वां स्मरति । '६१३ | अधीगर्थ| २|३|५२ ।' इति षष्ठी । आश्वासनार्थमाह-मा त्रसीः उद्वेगं मा कार्षीः । त्रसेदिवान्निष्ठायामिप्रतिषेधात् सिच इट् भवति । यतो राजेन्द्रौ रामलक्ष्मणौ । इहागमस्यागमनस्य । भावे अप् । उपास्कृषातां प्रतियत्नं कृतवन्तौ । आगमनस्य निश्चितत्वात् तस्यैव सुग्रीवसख्येन गुणाधानात् तेन '६१४ | कृञः प्रतियत्रे | २ | ३ |५३|' इति कर्मणि षष्ठी । प्रतियले लुङ् तङ् सुट् ॥
I
I
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com