SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य-रूपे कथानके 'ऽशोकवनिकाभङ्गो' नामाष्टमः सर्गः -- २२१ योदाहृता न पञ्चमी । वियोगस्य गुणपदार्थत्वात् । किमिति संकथां प्रास्तावीदित्याह – हेतोर्बोधस्य मैथिल्याः । एष रामदूत इति मैथिल्या बोधो ऽवगमः स्यातू । '६०७ । षष्ठी हेतुप्रयोगे | २|३|२६|' इति बोधशब्दस्य षष्ठी । प्रास्तावीदिति '२३८५। स्तु-सु- धून्भ्यः परस्मैपदेषु |७|२|७२|' इतीट् । '२२६८ | नेटि |७|२|४|' इति हलन्तलक्षणाया वृद्धेः प्रतिषेधः नेगन्तलक्षणायाः ॥ ६४६ - तं दृष्ट्वा ऽचिन्तयत् सीता - ' हेतोः कस्यैष रावणः ॥ अवरुह्य तरोरारादैति वानर - विग्रहः ॥ १०४ ॥ तमित्यादि - तं हनूमन्तं रामं स्तुवन्तं दृष्ट्वा सीता अचिन्तयत् । कस्य हेतोः रावणो वानरविग्रहः सन् ऐति आयाति । आङ्पूर्वस्येणो रूपम् । '६०८ । सर्वनानस्तृतीया च |२| ३ |२७|' इति षष्ठी । किंशब्दस्य सर्वनामत्वात् । आरात् अन्तिके । तरोरिति '५१५ | अन्यारात् | २|३|२९|' इत्याराच्छन्दयोगे पञ्चमी अवरुह्यावतीर्येति । अवरोहणापेक्षया झपादाने पञ्चमी । अपेक्षाया यौगपद्याभावात् । 'उपपदविभक्तेः कारकविभक्तिर्बलीयसी' आराद्योगे न वर्तते ॥ ६४७ - पूर्वस्मादन्य- वद् भाति भावाद् दाशरथिं स्तुवन् ॥ ऋते क्रौर्यात् समायातो मां विश्वासयितुं नु किम् ? ॥ पूर्वस्मादित्यादि - पूर्वस्माद्रावणादन्यवद्भवति ज्ञायते । अन्येन तुल्यं वर्तते इति कृत्वा अन्यशब्दयोगे पञ्चमी । यतो भावात् स्नेहाद्दाशरथिं स्तुवन् । किं नु क्रौर्या क्रौर्य वर्जयित्वा । ऋतेशब्दयोगे पञ्चमी । मां विश्वासयितुं संभावयितुं किमागत इत्यचिन्तयत् ॥ ६४८ - इतरो रावणादेष राघवानुचरो यदि ॥ स- फलानि निमित्तानि प्राक् प्रभातात् ततो मम. १०६ 1 इतर इत्यादि -- यदि रावणादितरः प्रतियोगी राघवानुचरः राघवार्थकारी । इतरयोगे पञ्चमी । ततो मम सफलानि स्वमलक्षणानि दर्शनादीनि निमित्तानि । प्राकू प्रभावात् आदित्योदयात्पूर्वस्मिन् काले । अन्यस्य हि प्रभातादुत्तरकालं सफलानि । भनूत्तरपदयोगे पञ्चमी ॥ ६४९ - उत्तराहि वसन् रामः समुद्राद् रक्षसां पुरम् ॥ अवैल लवण-तोयस्य स्थितां दक्षिणतः कथम् . १०७ उत्तराहीत्यादि - रामदूतो ऽयमिति न संभाव्यते । यतः समुद्रादुत्तरा या दिक् तस्यामुत्तराहि वसन् रामः । आहि च दूरे उत्तराच्चेति । तत्राहिप्रत्ययान्तेन ' उत्तराहिशब्देन योगे समुद्रादिति पञ्चमी । लवणतोयस्य लवणसमुद्रस्य दक्षितो दक्षिणस्यां दिशि स्थितां रक्षसां पुरीं लङ्कां कथमवैत् ज्ञातवान् । दक्षिणत इति '१९७८ | दक्षिणोत्तराभ्यामतसुच् | ५|३|२८|' तदन्तेन योगे '६०९ । षष्ठ्यतसर्थप्रत्ययेन |२| ३ | ३०|' इति षष्ठी ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy