SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य-रूपे कथानके 'ऽशोक-चनिका-भङ्गो' नामाष्टमः सर्गः-२०३ स्येति द्विवचनम् । पुरी लङ्का कासांचके शोभते स्म । सौधैः सौधानां ज्योत्स्नया चोदास्यमानत्वात् । '२२४०। आम्प्रत्ययवत्-१॥३।६३।' इति तङ् ॥ ५८१-इन्दुं चषक-संक्रान्तमुपायुत यथाऽमृतम् ॥ प्रयुञ्जानः प्रिया वाचः समाजाऽनुरतो जनः ॥३९॥ इन्दुमित्यादि-एवं शोभितायां लङ्कायां समाजानुरतः पानगोष्टीरतो जनः चषकसंक्रान्तं मद्यभाजने प्रतिबिम्बेन संक्रान्तमिन्दुमुपायुत उपभुक्तवान् । प्रतिबिम्बावच्छिन्नस्य मद्यस्योपलक्ष्यमाणत्वादेवमुक्तम् । यथाऽमृतं अमृतमिव । प्रिया अनुकूला वाचः प्रयुञ्जानः अभिदधानः । २७३५। प्रोपाभ्याम्-१॥३॥ ६४॥' इति तङ्॥ ५८२-संक्ष्णुवान इवोत्कण्ठामुपाभुत सुरामलम् ॥ ज्योत्स्नायां विगलन्-मानस् तरुणो रक्षसां गणः ४० संक्ष्णुवान इत्यादि-रक्षसां तरुणो गणः उत्कण्ठां प्रियासु संस्मरणं संक्ष्णुवान हव समुत्तेजयन्निव ।२७३६॥ समः क्ष्णुवः ।।३।६५।' इति तङ् । ज्योत्स्नायां सुरां अलं पर्याप्तमुपाभुङ्ग अभ्याहृतवान् । २७३७॥ भुजो ऽनवने ॥१॥३॥६६॥' इति तङ् । विगलन्मानः ॥ ५८३-मर्ध्वपाययत स्वच्छं सोत्पलं दयिताऽन्तिके ॥ आत्मानं सुरताऽऽभोग-विथम्भोत्पादनं मुहुः ॥४१॥ मध्वित्यादि-कीदृशं । मधु स्वच्छत्वात् सोत्पलतया सुरभित्वात् शोभनं जातं यतः स्वयमात्मानं मुहुरपाययत पायितवत् । '२७३०। रणौ-१३।६७।' इति तङ् । दयितान्तिके दयितस्य समीपे । सुरताभोगः सुरतविमर्दः तत्र विश्रम्भः तस्योत्पादनं जनकम् । उत्पादयतीति २०४१। कृत्यल्युटो बहुलम् ।३।३।११३।' इति कर्तरि ल्युट् ॥ ५८४-अभीषयन्त ये शक्रं राक्षसा रण-पण्डिताः॥ अविस्मापयमानस् तान् कपिराटीद् गृहाद् गृहम् ,४२ अभीषयन्तेत्यादि-एवं रक्षःसु यथायथं चेष्टमानेषु ये राक्षसारणपण्डिताः संग्रामविज्ञाः शक्रमभीषयन्त भीषितवन्तः । '२५८४॥ भी-स्म्योहेतुभये ।।३।६८' इति तङ् । '२५९५। भियो हेतुभये षुक् ।७३।४।' भयग्रहणमुपलक्षणं तेन मयतेरपि भवति । तानसौ कपिरविसापयमानः विस्मयमकारयन् । १-१०४० । चषकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्पणम् ।। २–१०० । चन्द्रिका कौमुदी ज्योत्स्ना प्रसादसू तु प्रसन्नता । ३-७८९। समौ विश्रम्भ-विश्वासौ भ्रेषो भ्रंशो यथोचितात् ।। ४–'४७) इन्द्रो मरुत्वान् मघवा विडोजाः पाकशासनः। वृद्धश्रवाः शुनासीरः पुरुहूतः पुरन्दरः । जिष्णुर् लेखर्षभः शक्रः ।। इति सर्वत्र ना० अ० । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy