SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १९६ भट्टिकाव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः, वर्तत इति स्वाभिप्रायम् । तुभ्यं तिष्ठामहे स्वाभिप्रायं निवेदयाम इत्यर्थः । अत्र प्रकाशनं च स्वामिप्रायकथनम् । '५७२ | श्लाघ- हुङ्-स्था-शपां ज्ञीप्स्यमानः | १| ४ | ३ ४ |' इति सम्प्रदानसंज्ञायां चतुर्थी । कस्मादेवं मां श्लाघस इति चेदाह । मित्रार्थे उत्तिष्ठमानं यतमानम् । २६९१ । उदोऽनूर्ध्व कर्मणि | १|३|२४ | ' इत्यात्मनेपदम् । कस्त्वां न बहु मन्यते न श्लाघते ॥ ५५५ - ये सूर्यमुपतिष्ठन्ते मन्त्रैः संध्या-त्रयं द्विजाः, ॥ रक्षोभिस्तापितास्तेऽपि सिद्धिं ध्यायन्ति तेऽधुना. य इत्यादि - ये द्विजा मन्त्रैः करणभूतैः सूर्यमुपतिष्ठन्ते प्रत्युपासते । '२६ - ९२। उपान्मन्त्रकरणे ।१।३।२५|' इत्यात्मनेपदम् | संध्यान्त्रयं त्रिसन्ध्यम् । अत्यन्तसंयोगे द्वितीया । तेऽपि रक्षोभिस्तापिता उपद्रुताः अधुना ते सिद्धिं घ्यायन्ति । किं पुनरहं यत्ते पितुः सुहृत् ॥ I तदेव दर्शयन्नाह— ५५६ - अ - व्यग्रर्मुपतिष्ठस्व वीर ! वायोरहं सुहृत् ॥ " रविर् वितपतेऽत्यर्थमा॑श्वस्य मयि गम्यताम् ॥१४॥ अव्यग्रमित्यादि - हे वीर ! अव्यग्रमनाकुलं मय्युपतिष्ठस्व सन्निहितो भव । '२६९३ | अकर्मकाच्च |१| ३ | २६ | ' इत्यात्मनेपदम् । यतो वायोस्तव पितुरहं सुहृत् । रविरत्यर्थं वितपते दीप्यते । ' २६९४ । उद्- विभ्याम् (१।३।२७' इत्यारमनेपदम् । तत्राकर्मकादिति वर्तते । तस्मादाश्वस्य मयि विश्रम्य गम्यताम् ॥ ५५७ - तीव्रमु॑त्तपमानो ऽयम॑ शक्यः सोढुमा॑तः ॥ 1 आघ्नान इव संदीतैरलांतैः सर्वतो मुहुः ॥ १५ ॥ तीव्रमित्यादि - तीव्रं सुष्ठु उत्तपमानो दीप्यमान आतपः सोढुमशक्यः । पूर्ववदात्मनेपदम् । अलातैः उल्मुकैः संदीप्तैः सर्वत्र आनान इव ताडयन्निव । ‘२६९५। आङो यमहनः । १|३|२८|' इत्यविवक्षित कर्मकत्वादात्मनेपदम्' २३६३। गम-हन-१६।४।९८।' इत्युपधालोपः '३५४ । हो हन्तेः | ७ | ३ | ५४ | ' इति कुत्वम् ॥ ५५८ - संशृणुष्व कपे ! मत्कैः संगच्छस्व वनैः शुभैः ॥ समारन्तममा sभीष्टाः संकल्पस् त्वय्युपागते. १६ संशृणुष्वेत्यादि - हे कपे ! संशृणुष्व आकर्णय । ' २६९९ | समो गम्यृच्छि - ||३|२९|' इत्यादि विवक्षित कर्मकत्वादात्मनेपदम् । शुभैः शोभमानैः । इगुपधलक्षणः कः । वनैर्मत्कैः मत्स्वामिकैः । अहं स्वामी येषामिति ' १८७७ । १ - १२० । रोचिः शोचिरुमे कीबे, प्रकाशो द्योत आतपः । । २ – '९१५ । अथ स्त्री स्यादङ्गारो, ऽलातमुल्मुकम् ।' । ३ – '१५५॥ धीर् वारणावती मेधा, संकल्पः कर्म मानसम् ।' इति सर्वत्र ना० अ० । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy