SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १६४ भट्टिकाव्ये – द्वितीयेऽधिकारकाण्डे लक्षण-रूपे द्वितीयो वर्गः, किं तद्विलपनमित्याह ४३९- 'भ्रमी कदम्ब - संभिन्नः पवनः शमिनामपि ॥ क्लमि त्वं कुरुतेऽत्यर्थं मेघ - शीकर - शीतलः. ॥ ५ ॥ भ्रमीत्यादि-भ्रमी भ्रमणशीलः । कदम्बसंभिन्नः कदम्बगन्धसंश्लिष्टः शमिनामपि शमनशीलानामपि क्कुमित्वं कुरुते भत्यर्थं ग्लानिं कुरुते । '३१२१॥ शमित्यष्टाभ्यो घिनुण् ।३।२।१४१।' । '२७६३ । नोदात्तोपदेश | ७|३|३४|' इत्या• दिना उपधावृद्धिप्रतिषेधः ॥ ४४० - संज्वारिणैव मनसा ध्वान्तमायासिना मया ॥ द्रोहि खेद्योत - संपर्क नयनाऽमोषि दुःसहम् ॥ ६ ॥ संज्वारिणेत्यादि - मयैतत् ध्वान्तं तमो दुःसहं दुःखेन सह्यत इति । मनसा करणभूतेन । कीदृशेन । संज्वारिणेव रोगशीलेनेव । आयासिना आयासशीलेन मयेति । द्रोहि अपकारशीलम् । ध्वान्तं खद्योतसंपर्क ज्योतिरिङ्गणसंसर्गशीलम् । नयनामोषि चक्षुर्मोषणशीलम् । '३१२२ | संपृचानुरुध-।३।२।१४२।' इत्यादिना सर्वे घिनुणन्ताः ॥ ४४१ - कुर्वन्ति परिसारिण्यो विद्युतः परिदेविनम् ॥ अभ्याघातिभिरा॑मिश्राश् चातकैः परिराटिभिः ॥७॥ ● कुर्वन्तीत्यादि ॥ एता विद्युतः परिदेविनं परिदेवनशीलं कुर्वन्ति । मामित्यर्थात् । कीदृश्यः । परिसारिण्यः परिसरणशीलाः । चातकैः पक्षिविशेषैः परिराटिभिः परिरटनशीलैः । एवंचाभ्याघातिमिः अभिहननशीलैः । दुःखोत्पादनात् । आमिश्रा युक्ता विद्युतः । पूर्ववद्विनुण् ॥ ४४२ - संसर्गी परिदाहव शीतो ऽप्याभाति शीकरः, ॥ सोढुमाक्रीडिनो ऽशक्याः शिखिनः परिवादिनः ॥८॥ I संसर्गीत्यादि - संसर्गी संसर्जनशीलः । शीतोऽपि शीकरो बिन्दुः । परिदाहीव परिदहनशील इवाभाति । शिखिनश्च मयूराः सोढुमशक्याः । भक्रीडिनो नर्तनशीलाः । परिवादिनः परिवदनशीला इव । इवशब्दश्चात्र लुप्तो द्रष्टव्यः । पूर्ववद् घिनुण् ॥ ४४३ - एता देवानुरोधिन्यो द्वेषिण्य इव रागिणम् ॥ पीडयन्ति जनं धाराः पतन्त्यो ऽनपकारिणम् ॥९॥ १-‘९५। धारासंपात आसारः शीकरोऽम्बुकणाः स्मृताः । २ - ५४८ । समौ पतङ्गशलभौ, खद्योतो ज्योतिरिङ्गणः । ३ – ५३६ । अथ सारङ्गः स्तोककश् चातकः समाः ।" ४ – '५५९ | मयूरो बर्हिणो बहीं नीलकण्ठो भुजङ्ग-भुक् । शिखावलः शिखी केकी मेघनादालास्यपि ।' इति सर्वत्र ना० अ० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy