________________
१४४ भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः, ३७०-ददैर् दुःखस्य मादृग्भ्यो धायै मोदमुत्तमम् || लिम्पैरिव तनोर् वातैश् चेतयः स्याज् ज्वलो न कः. ददैरित्यादि—वातैर्ददैः दुःखस्य दुःखं ददद्भिः । केभ्यः । मादृग्भ्यः । अस्मा। । शेभ्यो विरहिभ्यः । '४२९ ॥ त्यदादिषु दृशो ऽनालोचने कञ्च | ३|२|६०|' इति क्विन् । ‘१०१७। दृग्-दृश्-वतुषु |६|३|८९ | ' इत्याकारः । धायैरामोदमुत्तमं आमोदं प्रियासङ्गमेन हर्ष यावद्विरहिभ्यो दत्तस्य दुःखस्य धायै : पोषकैरित्यर्थः । उत्तममिति क्रियाविशेषणम् । उत्तममामोदं धायैः कुसुमानां परिमलं धारयद्धिरिति व्याख्याने अनित्यत्वात् कृत्प्रयोगे कर्मषष्ठ्यभावः । लिम्पैरिव तनोः शरीरं लिम्पन्निरिव । वातैर्हेतुभिः । को नाम विरहाग्निना यश्चेतयमानः ज्वलन्नग्निरिव न स्यात् । किन्तु भवेदेवेति भावः । ददैर्धायैरिति '२९०३ । इयाद्व्यवा-१३।१११४१।' इति आकारान्तलक्षणे शे प्राप्ते '२९०१। ददाति दधात्योः | ३|१|१३९ ॥ ' इति शानौ भवतः । शे आतो लोपः । णे चातो युक् । लिम्पश्चेतय इति '२९००। अनुपसर्गात् । ३।१११३८ ।' इति शः । ज्वल इति '२९०२ ॥ उवलितिकसन्तेभ्यो णः | ३|१|१४०॥ ' इति णस्य विकल्पनात्पचाद्यच् ॥ ३७१- अव॑श्या॒य-कणऽऽस्रावाश् चारु- मुक्ता-फल- त्विषः ॥ कुर्वन्ति चित्त-संस्रावं चलत्-पर्णाऽग्र- संभृताः ॥८०॥
I
अवश्यायेत्यादि - अवश्यायत इत्यवश्यायः । तस्य कणा बिन्दवः । आस्त्रवन्तीत्याचावाः क्षरन्तः । '२९०३ । इयाद्व्यधा - |३|१|१४१।' इति णः कर्तरि । तयोर्विशेषणसमासे राजदन्तादित्वात्परनिपातः । ते कुर्वन्ति चित्तसंस्रावम् । संस्रवतीति संस्रावः । पूर्ववत् णः । चित्तं संखावं चलत्कुर्वन्ति इत्यर्थः । पूर्ववत् समास - परनिपातौ । कीदृशाश्चलत्पर्णाप्रसंभृताः संगलिताः । अत एव चारुसुक्ताफलत्विषः दर्शनीयसुक्ताफलानुकारिणः । सीताहारस्थमुक्ताफलानि स्मारयन्तीत्यर्थः ॥
३७२ - अवसायो भविष्यामि दुःखस्यो ऽस्य कदा व॑हम्, ॥
न जीवस्य Saहारो मां करोति सुखिनं यमः ॥८१॥
अवसाय इत्यादि - कदा नु काले अहं दुःखस्यानुभूयमानस्य भवसायो - ऽन्तकरो भविष्यामि येन जीवस्यावहारो ऽवहूर्ता यमो मां सुखिनं न करोति मारयतीत्यर्थः । श्रवस्यति इति भवसाय: । '१२२२। षो ऽन्तकर्मणि' । भवहरतीत्यवहारः । '२९०३ । श्याद्व्यधा - ३ | १|१४११' इति सर्वत्र णः । युक् ॥ ३७३ - दो ऽहं मधुनो दैर् दावैरुयैर्यथा गिरिः, ॥
दह्ये
नायः कोऽत्र स, येन स्यां बता ऽहं विगतज्वरः ८२
१ - १०१ अवश्यायस तु नीहारस् तुषारस् तुहिनं हिमम् । प्रालेयं मिहिका च ।' इति ना० अ० )
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com