SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः- १३९ ३।१।१२४॥' कदा अमावास्यासमन्वये अमावास्यायाः सम्प्राप्तौ अमावास्याया. मित्यर्थः । २८७४। अमावस्यदन्यतरस्याम् ।३।१।१२२।' इति निपातनम् । तत्र हि अमाशब्दे उपपदे वसेर्धातोरमा सह वसतो यस्मिन्काले सूर्याचन्द्रमसौ इति काले ऽधिकरणे ण्यत् । तस्मिनन्यतरस्यां वृद्ध्यभावः । कैः । फलैः स्वादुमिः मिष्टैः । अपचनीयैः अनुपहतत्वात् '२८७२। ऋहलोय॑त् ।३।१।१२४ ॥ ३५५-अवश्य-पाव्यं पवसे कञ्चित् त्वं देव-भाग्यविः, ॥ आसाव्यमध्वरे सोमं द्विजैः कच्चिन् नमस्यसि.॥६॥ अवश्यपाव्यमित्यादि-देवभाक् देवान् भजत इति २९७६। भजो ण्विः ।३।२।६२।' तद्धविः कच्चित् किं पवसे पवित्रीकरोषि मन्त्रादिना । '११९। झयो होऽन्यतरस्याम् ।।४।६।' इति हकारस्य पूर्वसवर्णः । १०३७। पूङ पवने' इति भौवादिकः । कीदृशम् । अवश्यपाव्यमवश्यम्भावेन पावयितव्यमित्यर्थः । २८८६। ओरावश्यके ।३।१११२५।' इति ण्यत् । '७५४। मयूरव्यंसकादयः।२।१।७२।' इति समासः । 'लुम्पेदवश्यमः कृत्ये तुं काम-मनसोरपि' इति मकारलोपः । सोममौषधि विशेषम् । आसाव्यममिषवाहम् । आइपर्वात्सुनोतेः २४. ८७। आसुयु-वपि-३।१।१२६।' इत्यादिना ण्यत् । अध्वरे यज्ञे द्विजैः सह कञ्चित्वं नमस्यसि नमस्करोषि ॥ ३५६-आचाम्यं संध्ययोः कच्चित् सम्यक् ते न प्रहीयते, ॥ कच्चिदग्निमिवा ऽऽनाय्यं काले संमन्यसे ऽतिथिम्.॥ आचाम्यमित्यादि-प्रभाते ऽपराहे च सन्ध्ययोर्यदाचाम्यमुपस्पर्शनम् । पूर्ववत् ण्यत् । कच्चित्सम्यक् यथावत्तव तत्र न प्रहीयते न तस्य हतिर्भवति । काले आतिथ्योचिते काले कञ्चित् अतिथिं संमन्यसे पूजयसि । अग्निमिवानाव्यम् यथा भग्निं आनाय्यम् । दक्षिणानि मन्यसे तद्वत् । २०४८ आनाय्यो नित्ये ।३।१।१२७॥' इति नयतेरापर्वस्य ण्यदायादेशौ निपात्येते ॥ ३५७-न प्रणाय्यो जनः कच्चिन् निकाय्यं ते ऽधितिष्ठति ॥ देव-कार्य-विधाताय धर्मद्रोही महोदये!॥ ६६ ॥ १-७१९। यज्ञः सवोऽध्वरो यागः सप्ततन्तुर् मखः क्रतुः। इति ना० अ०।२-१२३६॥ दन्त-विप्रा डण्डजा द्विजाः।' इति ना० अ० । द्विज शब्दार्थास्त्रयः सुन्दरीवृत्तेन-'दिजेराज-शिरोमणेनिंदां द्विजै राज-ध्वज-शालिनश्च यः । कलयेन मनसाऽपि, पात्यवेऽन्तक भृत्यैः खलु तद्-द्विजोऽऽवलिः ॥' इति कोशावतंसः । 'द्विजो विप्रः। द्विजो ऽण्डजः पक्षी। द्विजो दन्तः। ३-१४८९ । कच्चित् काम-प्रवेदने ।' ४-६९७। यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते । तस्मिन्नानाय्यः। ५-३२४ । गृहाः पुंसि च भूम्मेव निकाय्य-निलयाऽऽलयाः । सर्वत्र ना० अ० । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy