________________
१३४ भट्टि-काव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे प्रथमो वर्गः,
अथ कृत्याधिकारःइतः परं कृत्याधिकारः३३७-प्रष्टव्यं पृच्छतस् तस्य कथनीयमवीवचत् ॥
आत्मानं वन-वासं च जेयं चा ऽरिं रघूत्तमः. ॥४६॥ प्रष्टव्यमित्यादि-स योजनबाहुः निहतो रामं पप्रच्छ 'को भवान्, कस्य पुत्रः, कथं तव वनवासः, करमाञ्चोद्विग्नः सन् भ्रमसि' इति । प्रष्टव्यं प्रश्ना पृच्छतस्तस्य । २७३४॥ तव्यत्-तव्यानीयरः ।३।११९६।' इति तव्यत् । २९॥ व्रश्च-1८।२।३६।' इति षत्वम् । ष्टुत्वं च । रघूत्तमस्तदानी कथनीयं कथनाह प्रश्नानुरूपम् । तेनैवानीयर् । अवीवचद्वति स्म । १९८५। वचं भाषणे।' चौरादिकः । स्वार्थिको णिच् लुङ् चङ् । णिलोपः इखः । द्विर्वचन-सन्वद्भावेत्वदीर्घत्वानि । किं तदित्याह-आत्मानं अहं रामो दाशरथिरिति । वनवासं पितुरादेशात् वनवासः । जेयं चारि जेतव्यं यः कनकमृगच्छलेन रावणः सीतामपं. हृतवानिति ॥ ३३८-'लभ्या कथं नु वैदेही, शक्यो द्रष्टुं कथं रिपुः,॥
सह्यः कथं वियोगश् च, गद्यमैतत् त्वया मम.'॥४७॥ लभ्येत्यादि-कथं रेन प्रकारेण उपायेन लभ्या वैदेही प्राप्या । २०४४॥ पोरदुपधात् ।३।१९८॥ इति यत् । शत्रुः केन प्रकारेण द्रष्टुं शक्यः । ३१७७॥ शक-पृष-३।१६५।' इत्यादिना तुमुन् । वियोगश्चायं सीतायाः कथं केन प्रका. रेण सह्यः सोढव्यः । '२८४७। शकि सहोश्च ।३।११९९।' इति यत् । गद्यमेतत् कथनीयमेतत् । '२८४८। गद-मद-१३।११००।' इत्यादिना यत् । ममेति शेषविवक्षायां षष्ठी ॥ ३३९-'अहं राम! श्रियः पुत्रो मद्य-पीत इव भ्रमन्, ॥
पाप-चर्यों मुनेः शापाज् जात' इत्यवदत् स तम्. ४८ अहमित्यादि-हे राम! अहं श्रियः पुत्रः मद्यपीत इव । '९००। वाहिताग्यादिषु ।२१२॥३७॥' इति निष्ठान्तस्य परनिपातः कार्याकार्यविवेकाभावात्पापचों राक्षसः। मुनेः स्थूलशिरसः शापाजात उत्पन्नः। माद्यत्यनेनेति मचं चरितव्यं चर्यमेतौ पूर्ववद्यत्प्रत्ययान्तौ । पापं चर्य यस्येत्यवदत् स योजनबाहुस्तं रामम् । वाक्यार्थोऽत्र कर्म ॥ ३४०-'प्रयातस् तव यम्यत्वं शस्त्र-पूतो ब्रवीमि ते ॥
रावणेन हृता सीता लङ्कां नीता सुरारिणा. ॥ ४९ ॥ प्रयात इत्यादि-इदानीं तव यम्यत्वं वश्यत्वं प्रयातः। यमेः पूर्ववत् यत् । शरपूतस्तव शस्त्रेण पावितः सन् बवीमि ते तुभ्यं कथयामि । युष्मदश्चतुर्थे. Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com