________________
तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः- १२१ कीर्षितज्ञानपरो बभूवेत्यर्थः । पूर्ववदाम् । अनिशम् अविच्छेदेन । (अनिश; मिति निशाक्रियाविच्छेदो नास्ति यस्मिन् प्रजागरण इति । निशेति क्रियाविच्छेदोपलक्षणम् । प्रायेण हि निशायां क्रियाणामप्रवर्तनम् । ) किमिति जागरितवानित्याह । काकुत्स्थादसौ प्रविभयांचकार प्रभीतवान् । २४९१॥ भी ही।३।१।३९।' इत्यादिनाम् । नुवत्कार्ये धातोर्गुणायादेशौ । अमिशङ्कितः किमयं करिष्यतीति । २९४-न जिह्रयांचकारा ऽथ सीतामभ्यर्थ्य तर्जितः ॥
नाप्यूर्जा बिभरामास वैदेह्यां प्रसितो भृशम् ॥ ३॥ न जिह्वयांचकारेत्यादि-सीतामभ्यर्थ्य याचित्वा न जिहयांचकार न लजितः । तर्जितः भर्सितोऽपि तयैवेत्यर्थात् । नाप्यूर्जी बलं बिभरामास धारितवान् । '२२३९। कृञ्-३।११४०।' इति प्रत्याहारग्रहणादस्तेरप्यनुप्रयोगः । हीधातोर्गुणायादेशौ । ११६२। डुभृञ् धारण-पोषणयोः' उभयत्रापि पूर्ववदाम् श्रुवच्च । कथं न धारितवान् इत्याह । वैदेह्यां प्रसितः प्रसक्तः । भृशमत्यर्थम् ॥ २९५-विदांकुर्वन्तु रामस्य वृत्तमित्यवदत् स्वकान्, ॥
रक्षांसि रक्षितुं सीतामाशिषच् च प्रयत्नवान्. ॥४॥ विदांकुर्वन्त्वित्यादि-स्वकानात्मीयान् शुकसारणादीन् अवददुक्तवान् । किमित्याह-रामस्य वृत्तमनुष्ठितं किं तस्येहागन्तुमुद्यमोऽस्ति न वेति विदांकुर्वन्तु । '२४६५। विदांकुर्वन्त्वित्यन्यतरस्याम् ।३।११४१॥ इति निपातितम् । सीतां रक्षितुं रक्षांसि आशिषदादिष्टवान् । शासः '२३८२। सर्ति-३।०५६।' इत्यङ् । '२४८६। शास इदङ्हलोः ।६॥३४॥' इति शासेरुपधाया इत्वं '२४१०। शासि-वसि-1८।३।६०।' इति षत्वम् । प्रयत्नवान् प्रयत्नपरः। आमधिकारो गतः ॥
___ अथ प्रकीर्णकाःअथ प्रकीर्णश्लोकानाह२९६-रामो ऽपि हत-मारीचो निवय॑न् खर-नादिनः॥
कोष्टुन् समशृणोत् क्रूरान् रसतो ऽशुभ-शंसिनः॥५॥ राम इत्यादि-हतमारीचो रामो ऽपि निवय॑न् प्रत्यागमिष्यन् । वलादि. लक्षण इटि प्राप्ते '२३४८ । न वृधः-७।२।५९।' इतीनिषेधः । क्रोष्ट्रन शृगालान् । रसतः शब्दायमानान् । समशृणोत् संश्रुतवान् । सकर्मकत्वात् । '२६९९। समो गम्युच्छि-19॥३।२९।' इत्यात्मनेपदं न भवति । लङि रूपम् । क्रूरान् भीषणान् । यतः खरनादिनः खरवनदन्ति । '२९८९ । कर्तरि-३।२१७९।' इति णिनिः । अशुभशंसिनः अनिष्टसूचनशीलान् ॥
भ० का० ११ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com