________________
११८ भट्टि-काव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे पञ्चमो वर्गः, २८५-न बिभाय, न जिहाय, न चक्लाम, न विव्यथे ॥
आनानो विध्यमानो वारणान् निववृते न च.॥१०२॥ नेत्यादि-आनानः पक्षी प्रहरन् । '२६९५। आङो यमहनः ।।३।२०।' इति तङ् । न बिभाय न भीतः। तस्मान्न जिहाय न लजितः । सम्यङ् मया न हत इति न चक्लाम न कान्तः। न विव्यथे । '२३५३। व्यथो लिटि ७४। ६०' इति सम्प्रसारणम् । जितश्रमत्वात् । विध्यमानो वा । वाशब्दश्चार्थे । परेण हन्यमानश्च न विव्यथे न पीडां भेजे । सत्त्वाधिकत्वात् । रणाञ्च न निववृते न निवृत्तः । अभग्नोत्साहत्वात् ॥ २८६-पिशाच-मुख-धौरेयं स-च्छत्र-कवचं रथम् ॥
युधि कद्-रथ-वद् भीमं वभञ्ज ध्वज-शालिनम्. १०३ पिशाचेत्यादि-युधि संग्रामे पक्षी रथं बभञ्ज भन्मवान् । तस्य पुष्पकादन्यत्वात् । तथा हि कदथवत् कुत्सितरथमिव । '१०२८। रथ वदयोश्च ।६।३। १०२।' इति कदादेशः । धुरं वहन्ति धौरेया अश्वाः । १६२८। धुरो यडको ।४।४।७७॥' । पिशाचस्येव मुखं येषां ते धौरेया यत्र रथे तं पिशाचमुखधौरेयम् । सच्छोभनं छत्रं कवचं च यस्मिन् । तं भीमं भयानकं तथा धुर्यत्वात् । ध्वजशालिनं ध्वजवन्तम् । शालिनशब्दः किन्प्रत्ययान्तस्तद्वन्तमाह । अन्यस्त्वाह ध्वजेन शालितुं श्लाघयितुं शीलमस्येति णिनिः । अनेकार्थत्वाद्धातूनामिति ॥ एते प्रकीर्णकाः ॥
__ अतः परं आमधिकारः। इतः प्रभृत्याममधिकृत्याह२८७-संत्रासयांचकाराऽरिं, सुरान् पिप्राय पश्यतः, ॥
सत्याजयांचकाराऽरिं सीतां विंशति-बाहुना.॥१०४॥ सन्त्रासयामित्यादि-अथैतस्मिन् युद्धप्रस्तावे स पक्षी सीतां विंशतिबाहुना रावणेन त्याजयांचकार त्याजितवान् । गत्यादिषु स्यजेरसंग्रहात् तृतीयैव भवति । कस्मात्याजितवानित्याह । सन्त्रासयांचकारारि यसादार रावणं त्रासितवान् । अकर्मकत्वात् त्रासेय॑न्तावस्थायामरेः कर्मत्वम् । आभ्यां हेतुमण्ण्यन्ताभ्याम् '२३०६। कास्प्रत्ययात्-३।१।३५।' इत्यादिना आम् । आमो. ऽमित्वमदन्तत्वात् । '२२३८। आमः ।२।४१८१॥' इति लुक् । '२३११॥ अयामन्त-६।४।५५।' इत्यादिना अयादेशः। आमकारान्तस्य कृत्संज्ञायां प्रातिपदिकत्वे प्रथमैकवचनम् । तस्य '४५२। अव्ययात्-।२।४८।' इति लुक् । स्वरादिषु 'भम् आम्' इति पठितत्वादव्यत्वम् । आमन्तस्थानभिव्यक्तपदार्थत्वात् '२२०
३९। कृञ्चानुप्रयुज्यते-३।१॥४०॥' इत्यादिना लिट्परस्य कृजो ऽनुप्रयोगः । कत्र• Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com