SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः- ९१ तां लोलतां दर्शयन्त्याह२००-लक्ष्मीः पुं-योगमाशंसुः कुलदैव कुतूहलात् ॥ अन्तिके ऽपि स्थिता पत्युश् छलेनाऽन्यं निरीक्षते. ॥ १७ ॥ लक्ष्मीरित्यादि-त्वयैवं न मन्तव्यम् अन्यैः प्रार्थ्यमानापि न मां परित्यजतीति । यतः छलेन व्याजेन अन्यं निरीक्षते । किमर्थ-पुंयोगमाशंसुः अभिलषन्ती । '३१४८॥ सनाशंस-भिक्ष उः ।३।२।१६८।' कुतूहलात् कोऽस्य विशेष इति । स्नेहादन्तिके अदूरेऽपि स्थिता पत्युः । ६११॥ दूराऽन्तिकाथै :॥२३॥३४॥' इत्यादिना षष्टी । कुलटेव बन्धकीव । शकन्ध्वादिषु दर्शनात्पररूपम् ॥ युवजानिरित्युक्तं तद्योषित्प्रलोभनायाह२०१-योषिद्-वृन्दारिका तस्य दयिता हंस-गामिनी ॥ दूर्वा-काण्डमिव श्यामा न्यग्रोध-परिमण्डला. ॥१८॥ योषिदित्यादि-योषिञ्चासौ वृन्दारिका चेति । '७४१॥ वृन्दारक-२॥१॥ ६२।' इत्यादिना सः रूपेण प्रियेत्याह-दयिता प्रिया । प्रशस्तत्वे कारणमाहहंस इव गन्तुं शीलं यस्याः । '२९८९। कर्तर्युपमाने ।३।२७९।' इति णिनिः । दूर्वाकाण्डमिव श्यामा दुर्वास्तम्बं तदिव श्यामा । न्यग्रोधपरिमण्डला । '७३४॥ उपमानानि-२।११५५।' इत्यादिना सः ॥ २०२-नाऽऽस्यं पश्यति यस् तस्या, निस्ते दन्त-च्छदं न वा, ॥ संशृणोति न चौक्तानि, मिथ्याऽऽसौ विहितेन्द्रियः ॥ १९ ॥ नास्यमित्यादि-तस्या आस्वं मुखं यो न पश्यति । दन्तच्छदं ओष्ठम् । छाद्यते अनेनेति घः । '३२९७। छादेर्धेऽयुपसर्गस्य ।६।४।९६।' इति हस्वः । दन्तानां छदं नवा निस्ते न चुम्बति । '१०९६। णिलि चुम्बने ।' इत्यादादिक आत्मनेपदी । '२२६२। इदितो नुम् धातोः ।।१।५८।' उक्तानि उदितानि न संशृणोति । '२६९९। समो गमि-१३।२९।' इत्यादिना तङ् न भवति । अकमकादित्यधिकारत् । मिथ्यासौ विहितेन्द्रियः । वृथैव तस्य वेधसा विहितानि इन्द्रियाणि चक्षुरादीनि ॥ १-स्तनौ सु-कठिनौ यस्या, नितम्बे च विशालता, ॥ मध्ये क्षीणा भवेद् या, सा न्यग्रोध-परिमण्डला.॥१॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy