________________
६८ भट्टिकान्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे तृतीयो वर्गः, १३३-'अरण्य-याने सु-करे पिता मा
प्रायुत, राज्ये बत दुष्-करे त्वाम् , ॥ मा गाः शुचं वीर!, भरं वहाँ ऽमुम्,'
आभाषि रामेण वचः कनीयान्. ॥५१॥ अरण्ययान इत्यादि-अरण्याय यानं भरण्ययानं तस्मिन् सुकरे सुखसाध्ये पिता मांप्रायुत नियुक्तवान् । युजे रौधादिकस्य लङि रूपम् । कर्बभिप्राये २७३५॥ प्रोपाभ्यां यजेः-१॥३॥६॥' इत्यात्मनेपदम् । राज्ये दुष्करे दुःखसाध्ये त्वां प्रायुत । एवं च सति हे वीर, शुचं शोकं मा गाः। मा कार्षीरित्यर्थः । २४५८। इणो गा लुङि ।।४४५।' । '२२२३। गाति-स्था-२४७७।' इति सिचो लुक् । बत इति खेदे । किन्तु भरममुं पितुर्नियोगम् । ९६४। भृ- भरणे ।' इत्यस्मात् '३२३२। ऋदोरम् ।३।३।५७।' वह संपादय । विधौ लोट् । एवं वचः रामेण कनीयान् अनुजो भ्राता भरतः आभाषि भाषितः । कर्मणि लुङ् । ब्रुवीत्यर्थग्रहणात् द्विकर्मकता । अल्पशब्दादीयसुनि '२०१९। युवाल्पयोः-1५।३।६।' इत्यादिना कनादेशः ॥ १३४-'कृती श्रुती वृद्ध-मतेषु धीमांसू
त्वं पैतृकं चेदू वचनं न कुर्याः, ॥ विच्छिद्यमाने ऽपि कुले परस्य
पुंसः कथं स्यादिह पुत्र-काम्या. ॥५२॥ कृतीत्यादि-वृद्धानां पण्डितानां मतेषु श्रुतानि कृतानि चानुष्ठितानि येने. ति । श्राद्धमनेनेत्यधिकृत्य १८८८। इष्टादि-५।२।८८' इतीनिः । कस्बेन्विषयस्येति कर्मणि सप्तमी । खमते भावकान्तादस्त्यर्थे इन् । स त्वमेवंविधः धीमान् पैतृकं पितुरागतम् । १४५८। पितुर्यच्च ।४।३।७९।' इति चकारादृतष्ठनि १२२ ॥ इसुसुक्तान्तात्कः ।।३।५१।' चेद्यदि वचनं न कुर्याः । मध्यमपुरुषैकवचने लिङि रूपम् । तदा विच्छिद्यमाने कुले वंशे परस्यापि अन्यस्यापि पुंसः । अपिशब्दो भिन्नक्रमः । कथं स्यादिह लोके पुत्रकाम्या । आत्मनः पुत्रेच्छा नैवेत्यर्थः । पुत्रशब्दात् '२६६३। काम्यच्च ।३।१।९।' इति काम्यच् । तदन्तादप्रत्ययः । टाप् ॥ १३५-अस्माकमुक्तं बहु मन्यसे चेद्,
यदीशिषे त्वं न मयि स्थिते च, ॥ जिहेष्य-तिष्ठन् यदि तात-वाक्ये,
जहीहि शङ्कां, व्रज, शाधि पृथ्वीम्.' ॥५३॥ __ अस्माकमित्यादि-असाकमुक्कं अस्मत्सम्बन्धि वचनं चेद् यदि बहु मन्यसे आद्रियसे । पितृतुल्यो भ्राता अस्थानुमतः कथमेवं न कुर्यामिति यदि Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com