SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्रीभगवन्नामकौमुदी | ननु नामकीर्त्तनविषयं शास्त्रं न द्वादशवार्षिकादेः साधनत्वमपलपति तत्कथं बाधः ? उच्यते - अननुष्ठानमेवात्र बाधितत्वं, न विषयापहारः । यथोक्तं भद्वै: "एतेन प्रवृत्तिश्च फलं प्रमाणानां प्रवृत्त्याख्यफलापहारश्च बाघ" - इति । तत्र यदा समशिष्टयोर्द्वयोरपि नोपलभ्यते विशेषः तदा निरङ्क शत्वादिच्छायाः कस्य चित्कदा चित्कस्मिंश्चिस्प्रवृत्तिरिति द्वयोरपि पाक्षिकमनुष्ठानं; यदा पुनरुपलभ्यते विशेषः सुकरदुष्करत्वभेदेन तदा सुकरानुरागिणीमिच्छां न कश्चिदपि कदा चिदप्यपाक्रष्टुमीष्ट इति दुष्करस्यात्यन्तबाध एव तस्माद् व्यवस्थैव वरीयसी । श्राशयानभिज्ञः शङ्कते - नन्विति । श्राशयमाविष्करोति — उच्यतइति । उबेकाचार्यसंमतिमाह - यथोक्तमिति । प्रवृत्तिरनुष्ठानम् । अननुष्ठानाख्यं बाधं विवृणोति तत्रेति । विशेषमेवाह - सुकरत्वदुष्करत्वभेदेनेति । सुकरानुरागिणीं सुकरे कर्मणि स्वारस्येन प्रवर्तमानाम् । श्राक्रष्टुं = दुष्करे कर्मणि प्रवर्त्तयितुम् । ईष्टे समर्थः । इतिशब्दो देतौ । तत्र केचिन्नितान्तमनुरक्ताः स्मृतिषु पुराणोभ्यश्च मनाग्विभ्यतो महदल्पपापभेदेन वा ज्ञाताज्ञातकृतभेदेन वा प्रकाशरहस्यभेदेन वा स्मार्त्त पौराणञ्च प्रायश्चिसंव्यवस्थापनीयमिति वदन्ति, ततश्चाल्पाज्ञानादिकृतविषयैः पौराणमित्युक्तं भवति । तन्न साधीयः स्मात्तैर्विकल्प्यते पापे गुरूणि गुरुणि खल्पान्यल्पे च तद्विदः । प्रायश्चित्तानि मैत्रेय जगुः स्वायंभुवादयः ॥ प्रायश्चित्तान्यशेषाणि तपः कर्मात्मकानि वै । यानि तेषामशेषाणां कृष्णानुस्मरणं परमिति गुरुलघु सर्व्वपापानामविशेषेण कृष्णानुस्मरणस्य मुख्यप्रायश्चित्तत्वाभिधानाद । Shree Sudharmaswami Gyanbhandar-Umara, Surat - ६१ www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy