SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीमगवन्नामकौमुदी। द्वितीयः परिच्छेदः श्रीकृष्णाय नमः। श्रीकान्त कृष्ण करुणाकर कञ्चनाभ कैवल्यवल्लभ मुकुन्द मुरान्तकेति । नामावली विमलमौक्तिकहारलक्ष्म लावण्यवन्धनवतीं करवाणि कण्ठे ॥ एवं स्थिते नामकीर्तनस्य पापक्षयं प्रति साधनत्वे पुनरिदं विचार्यते-किं कस्य चित् साधकतमस्याङ्गभूतं. तद् उत खयमेव साधकमिति ? ननु निर्णीतमेतत् फलश्रुतेरर्थवादत्वनिराकरणेन, सत्यं तदेव पुनराक्षेपान्तरनिराकरणेन दृढीक्रियते स्थूणानिखननन्यायेन । तत्र मन्वाद्युक्तप्रायश्चित्ताङ्गमिति तावत्प्राप्तं, तथा हि-विकल्पसमुच्चयव्यवस्थानामन्यतमाश्रयणेन स्मृतिपुराणविरोधस्तावदवश्यं परिहर्त्तव्यः, समानमूलत्वेनान्यतरस्याप्यनतिलड्डनीयत्वात् , तत्र विकल्पव्यवस्थे तावन्न युज्यते नित्यवदवगतस्य पारिकत्वे सामान्यश्रुतस्य च विशेषविषयत्वे शन्दवचनस्वारस्यभङ्गप्रसङ्गाद्, अतः समुच्चयोऽत्र परिशिष्यते। __ प्रकाशस्य द्वितीयः परिच्छेदः। ॥ श्रीगोपीरमणाय नमः ॥ द्वितीयपरिच्छेदार्थप्रतिजानीते-एवमिति। पूर्वपरिच्छेदन पौनरूत्वं शङ्कते-मन्विति । नामकीर्तनस्य किंचिदङ्गत्वे फलश्रुतिरर्थवाद एष Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy