SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ( २ ) भक्तिस्वरूपप्रकाशनाय क्षमत इति सर्वोऽपि जनः प्रतीयात् । अत्र ग्रन्थस्यास्य महिमानं न साकल्येन वर्णयितुमिच्छत्ययं जनः, ग्रन्थस्य पुरोवर्तित्वादात्मनश्चापाटवात् । ___ इदं पुस्तकं श्रीमद्भिराचार्यगोस्वामिदामोदरशास्त्रिमहोदयः सावधानं सम्मादितम् । प्रसिद्धं हि वैदुष्यं श्रीमतां गोस्वामिप्रवराणां, विश्रुता चैषां विकुण्ठा प्रतिभा, प्रथिता च नवनवविषयागाहिनी शेमुषी । नूनमीदृशा एव विश्रुतवैदुष्या महान्तः पुस्तकमेतादृक् सम्पादयितुं प्रभवन्ति । तच्चात्र सङ्घटितमित्यपरं सौभाग्यं ग्रन्थमालाया अस्याः। आशास्महे पुस्तकमिदं भारतीयानामस्माकं हृदयात्प्रतिदिनं विलुप्यमानां नामश्रद्धां दृढीकरिष्यति, दूरमुत्सारयिष्यति नाममाहात्म्यपरिपन्थिनः कुतर्कान् । श्रीमतामच्युतस्वामिनां चरणयोः सश्रद्धं प्रणता वयं श्रीमत आचार्यगोस्वामिदामोदरशास्त्रिमहोदयान् धन्यवादेर्योजयामः, येषां कृपयाऽसमेन परिश्रमेण च पुस्तकमिदमग्र जनसाधारणगोचरीभूतमिति निवेदयति । विनयावनतोगोयनकोपाख्यो गौरीशङ्करः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy