SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ प्रकाशसहिता एवं च विधिविभक्तिरहितानां नामकीर्तनवाक्यानां विधिपरत्वमुक्त्वा विधिविभक्तिमन्ति वाक्यान्युदाहरति-अपि चेति । एकेनैकाग्रेण सति करकेश्रोतव्यः, सति श्रोतर्यसति वा कीर्तितव्यः, अनेनगुणकोर्तन मा. मकीर्तनं च विधीयतेऽ विशेषात्. श्रवणकीर्तनयोरसंभवेध्येयःस्मर्तव्यः, स्मरणस्याप्यसंभवे पूजनीयः, नित्यदेत्येवं यथाकथंचित्सर्वःसमयोमगवत्परतयैव नेतव्य इति भावः। गीतानि पूर्वरिति शेषः । अध्याहारभयादीतिविशिष्ठनामोश्चारणविधानं वा तदर्थकानि भगवत्प्रतिपादकानि तस्येति वक्तव्येऽर्थग्रहणात्तत्फलकानि च ततश्च नामकीर्तनेऽस्य भगवत्प्राप्तिः फलमिति भावः। विलन्ज इत्युच्चैरुच्चारणविधानम् , असा इति नाधिकारिविशेषणं सर्वाधिकारवारिक वसङ्गो विषयासङ्गरहितो. विवरेद्भवेदिति यावत्, ततश्च नामकीर्तने विषयासको गच्छतीति भावः । तद्रतिकराणि भगवत्प्रीतिकराणि कर्तुरेव वा तस्मिन्भगवति प्रीतिकरालि। चतुर्वेति । प्रणवाभ्यासोवाराणसीवसतिः शतरुद्रिय. जपो नामोचारणं चेति तदेनदग्रे मूल एव वक्ष्यते। नमु भवतु नामकीर्तनविषयो विधिः, तथापि नित्य एवासानहरहः खाध्यायमधीयीतेतिवत् संकीर्तयेजगन्नाथं वेदं वापि समभ्यसेदितिसमभिव्याहारात.ततश्च घृतकुल्याऽऽदिफलश्रतेरिव पापचयफलश्रुतेरर्थवादत्वं, तदयुक्तम् अविशेषात् न हि नित्योऽनित्यो वा विधिः फलं विना समाप्यते ततश्चाश्रुतफलकल्पनादार्थवादिकफलस्वीकरणमेव न्याय्यं तस्माद्विवक्षितार्थस्यैव नामकीर्तनस्य पापक्षयहेतुत्व प्रतिपादकानि पुराणवचनानीति । कृष्ण कृष्ण मधुसूदन विष्णो कैटभान्तक मुकुन्द मुरारे। पद्मनाभ नरसिंह हरे श्री राम राम रघुनन्दन ! पाहि ॥ इति श्रीमदनन्तानन्दरघुनाथपादपद्मोपजीविनो लक्ष्मी Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy